Select Page

मन्त्रमार्तण्ड

इन्द्रियंवेतिखण्डम्

इन्द्रियं वा एतदस्मिंल्लोके यद्दधि यद्दध्नाऽभिषिञ्चतीन्द्रियमेवास्मिंस्तद्दधाति रसो वा एष ओषधिवनस्पतिषु यन्मधु यन्मध्वाऽभिषिञ्चति रसमेवास्मिंस्तद्दधाति तेजो वा एतत्पशूनां यद्धृतं यद्धृतेनाभिषिञ्चति तेज एवास्मिंस्तद्दधात्यमृतं वा एतदस्मिंल्लोके यदापो यदद्भिरभिषिञ्चत्यमृतत्वमेवास्तिंद्दधाति सोऽभिषिक्तोऽभिषेक्त्रे ब्राह्मणाय हिरण्यं दद्यात्सहस्रं दद्यात्क्षेत्रं चतुष्पाद्दद्याथाप्याहुरसङ्ख्यातमेवापरिमितं दद्यादपरिमितो वै क्षत्रियोऽपरिमितस्यावरुद्ध्या इत्यथास्मै सुराकंसं हस्त आदधाति स्वादिष्ठया मदिष्ठया पवस्व सोम धारया इन्द्राय पातवे सुत इति तां पिबेद्यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः।
इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामि।
अभि त्वा वृषभा सुते सुतं सृजामि पीतये।
तृम्पा व्यश्नुहि मदमिति यो ह वाव सोमपीथः प्रविष्टः सहैवैतेन्द्रेण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य भक्षितो भवति न सुरा तां पीत्वाऽभिमन्त्रयेतापाम सोमं शं नो भवेति ।
तद्यथैवादः प्रियः पुत्रः पितरं प्रिया वा जाया पतिं सुखं शिवमुपस्पृशत्याविस्रस: एवं हैवैतेनैन्द्रेण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य सुरा वा सोमो वाऽन्यद्वाऽन्नाद्यं सुखं शिवमुपस्पृशत्याविस्रसः।

एतेन हवा ऐन्द्रेण महाभिषेकेण संवर्त आङ्गिरसो मरुत्तमाविक्षितमभिषिषेच तस्मादु मरुत्त आविक्षितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मध्येनेजे तदप्येष श्लोकोऽभिगीत: मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे आविक्षितस्य कामप्रेविश्वेदेवाः सभासद इति।।

श्री सद्गुरु माणिक्यप्रभु महाराजायनम: महाभिषेकस्नानं समर्पयामि।।

महामंत्र

श्री भक्तकार्यकल्पद्रुम गुरुसार्वभौम श्रीमद्राजाधिराज योगिमहाराज त्रिभुवनानंद अद्वैत अभेद निरंजन निर्गुण निरालंब परिपूर्ण सदोदित सकलमतसस्थापित श्री सद्गुरु माणिकप्रभु महाराज की जय!

 

CONTACT US

Shri Manik Prabhu Samsthan,
Maniknagar,
Dist. Bidar,
Karnataka - 585353  (India)

E-mail: maniknagar@gmail.com 

Admin:  9448469913, 9448128389
Office: 9535119497,  9036656829
Seva Booking: 9008894889
Accommodation: 9902453075, 9731089499