Select Page

अन्नसमर्पणम्

पात्राधो मण्डलंकृत्वा पात्रमध्ये अन्नं वामे भक्ष्यभोज्यं
दक्षिणे घृतपायसं पुरतः शाकादीन्‌ एवं परिवेषणं कारयित्वा ।।

ब्राह्मणभोजन सङ्कल्प:

ॐ भूर्भुव॒: स्व॑: ।
ॐ तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो᳚ दे॒वस्य॑ धीमहि ।
धियो॒योन॑: प्रचो॒दया᳚त् ।।

इति मन्त्रेण प्रोक्ष्य ।

प्रजापते हिरण्यगर्भः प्रजापतिस्त्रिष्टुप
अन्नसमर्पणे विनियोगः ।

प्रजा᳚पते॒ न त्वदे॒तान्य॒न्यो
विश्वा᳚ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का᳚मास्ते जुहु॒मस्तन्नो᳚ अस्तु
व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

एकोविष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रीँल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्व-भुगव्ययः ।।

अनेन ब्राह्मणभोजनेन अमुकदेवताः प्रीयतां न मम ।।

नमो देव्यै महादेव्यै
शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै
नियताः प्रणताः स्म ताम् ।।

अनेन सुवासिनीभोजनेन अमुकदेवता:
प्रीयतां न मम ।।

ॐ तत्सदब्रह्मार्पणमस्तु ।।

यन्तु॑ न॒दयो॒ वर्ष॑न्तु प॒र्जन्या᳚: ।
सुपि॒प्प॒ला ओष॑धयो भवन्तु ।
अन्न॑वतामोद॒नवतामा॒मिक्ष॑वताम् ।
ए॒षाꣳ राजा॑ भूयासम् ।
ओ॒द॒नमद्ब्रु॑वते ।
प॒र॒मे॒ष्ठीवाए॒षः।
यदो॑दनः ।
प॒र॒मामे॒वैन॒ꣳ श्रिय॑ङ्गमयति ।।

पार्वतीपतये हर हर महादेव ।।