Select Page

भोजनविधिः

ॐ भूर्भुव॒: स्व॑: ।
ॐ तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो᳚ दे॒वस्य॑ धीमहि ।
धियो॒योन॑: प्रचो॒दया᳚त् ।।
इति मन्त्रेण प्रोक्ष्य ।।

सत्यंत्वर्तेन परिषिञ्चामि ।।
इति प्रातः।

ऋतन्त्वा सत्येन परिषिञ्चामि ।।
इति सायम् ।

इति प्रदक्षिणमन्नं परिषिच्य ।

पात्राद्दक्षिणतो भुवि उदकधारां प्राक्संस्थां कृत्वा
तत्र क्रमेण बलिं दद्यात् ।

चित्राय स्वाहा ।
चित्रगुप्ताय स्वाहा ।
यमाय स्वाहा ।
यमधर्माय स्वाहा ।
सर्वेभ्योभूतेभ्य: स्वाहा ।
हस्तं प्रक्षाल्य आपोशनार्थं जलमादाय
वामहस्तमध्यामानामिकाङ्गुष्ठैर्भोजनपात्रमालभ्य ।।

अहं वैश्वानरोभूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ।।

अमृतोपस्तरणमसि स्वाहा ।।
इति जलं प्राश्य।

(तर्जनीमध्यमाङ्गुष्ठैः) प्राणाय स्वाहा ।
(मध्यमानामिकाङ्गुष्ठैः) अपानाय स्वाहा ।
(कनिष्ठिकानामिकाङ्गुष्ठैः) व्यानाय स्वाहा ।
(मध्यमानामिकाङ्गुष्ठैः) उदानाय स्वाहा ।
(सर्वाभिः) समानाय स्वाहा ।।

ब्रह्मणिमात्मा अमृतत्त्वाय ।।
इति जलं स्पृष्ट्वा यथेष्टं भोजनं कुर्यात्‌ ।।

ततो भोजनान्ते पात्रस्थमन्नं किञ्चिद्गृहीत्वा अवघ्राय ।।
उच्छिष्टभाग्भ्यो नमः ।।
इति भूमौ विसृज्य ।।

उत्तरापोशनार्थं उदकं गृहीत्वा ।
अमृतापिधानमसि स्वाहा ।।
इति मन्त्रेण तदर्धं पीत्वा ।

रौरवे पूयनिलये पद्मार्बुदनिवासिनाम् ।
अर्थिनामुदकंदत्तमक्षय्यमुपतिष्ठतु ।।
इति मन्त्रेणावशिष्टं जलं पितृतीर्थन भूमौ निषिञ्च्य ।
हस्तौ पादौ प्रक्षाल्य ।
आचम्य ।।

 

महामंत्र

श्री भक्तकार्यकल्पद्रुम गुरुसार्वभौम श्रीमद्राजाधिराज योगिमहाराज त्रिभुवनानंद अद्वैत अभेद निरंजन निर्गुण निरालंब परिपूर्ण सदोदित सकलमतसस्थापित श्री सद्गुरु माणिकप्रभु महाराज की जय!

 

CONTACT US

Shri Manik Prabhu Samsthan,
Maniknagar,
Dist. Bidar,
Karnataka - 585353  (India)

E-mail: maniknagar@gmail.com 

Admin:  9448469913, 9448128389
Office: 9535119497,  9036656829
Seva Booking: 9008894889
Accommodation: 9902453075, 9731089499