Select Page

ब्रह्मयज्ञम्

सङ्कल्पः

आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं ब्रह्मयज्ञेन यक्ष्ये ।

ऋग्वेदप्रथमसूक्तम्

अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म्  ।
होता᳚रं रत्न॒धात॑मम् ।

अ॒ग्निः पूर्वे᳚भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त  ।
स दे॒वाँ एह व॑क्षति ।

अ॒ग्निना᳚ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे  ।
य॒शसं᳚ वी॒रव॑त्तमम् ।

अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑  ।
स इद्दे॒वेषु॑ गच्छति ।

अ॒ग्निर्होता᳚ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः  ।
दे॒वो दे॒वेभि॒रा ग॑मत् ।

यद॒ङ्ग दा॒शुषे॒ त्वमग्ने᳚ भ॒द्रं क॑रि॒ष्यसि॑  ।
तवेत्तत्स॒त्यम᳚ङ्गिरः ।

उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा᳚वस्तर्धि॒या व॒यम्  ।
नमो॒ भर᳚न्त॒ एम॑सि ।

राज᳚न्तमध्व॒राणां᳚ गो॒पामृ॒तस्य॒ दीदि॑विम्  ।
वर्ध॑मानं॒ स्वे दमे᳚ ।

स नः॑ पि॒तेव॑ सू॒नवेऽग्ने᳚ सूपाय॒नो भ॑व  ।
सच॑स्वा नः स्व॒स्तये᳚ ।

ऐतरेयादि ब्राह्मणग्रन्थानां प्रथमवाक्यानि

अग्निर्वे देवानां अवमो विष्णुः परमः ।
अथ महाव्रतम् ।
एष पन्था एतत्कर्म ।
अथात: संहिताया उपनिषत् ।
विदामघवन्विदा ।
महव्रतस्य पञ्चविंशतिं सामिधेन्यः ।
इ॒षेत्वो॒र्जेत्वा᳚ ।
अग्न॒आया᳚हिवी॒तये᳚ ।
शं नो᳚ दे॒वीर॒भिष्ट॑ये ।
अथैतस्य समाम्नायस्य ।
समाम्नाय: समाम्नातः ।
म य र स त ज भ न ल ग संमितम् ।
गौः । ग्मा ।
पञ्चसंवत्सरमयम् ।
अथ शिक्षां प्रवक्ष्यामि ।
वृद्धिरादैच् ।
यदि᳚न्द्रोदाशरा॒ज्ञे मानु॑षी॒र्व्यगा᳚हथा ।
इ॒दं जना॒उप॑श्रुत ।
योगीश्वरं याज्ञवल्क्यम् ।
नारायणं नमस्कृत्य ।
अथातो धर्मं व्याख्यास्यामः ।
अथातो धर्मजिज्ञासा ।
अथातो ब्रह्मजिज्ञासा ।

ॐ तच्छं॒योरावृ॑णीमहे ।
गा॒तुं य॒ज्ञाय॑ गा॒तुं य॒ज्ञप॑तये ।
दैवी᳚: स्व॒स्तिर॑स्तु न: ।
स्व॒स्तिर्मानु॑षेभ्यः।
ऊ॒र्ध्वं जि॑गातु भेष॒जम्‌ ।
शं नो᳚ अस्तु द्वि॒पदे॒᳚ ।
शं चतु॑ष्पदे।।

ॐ नमो᳚ ब्र॒ह्मणे॒ नमो᳚ अस्त्व॒ग्नये
नम॑: पृथि॒व्यै नम॒ ओष॑धीभ्यः।
नमो᳚ वा॒चे नमो᳚ वा॒चस्पत॑ये॒
नमो॒ विष्ण॑वे मह॒ते क॑रोमि।।

इति त्रिः ।

ॐ भूर्भुवः स्वः शान्तिः शान्तिः शान्तिः ।

देवतर्पणम्

देवतीर्थेन कुशाग्रैरेकैकाञ्जलिन्तर्पयेत् ।।

१ प्रजापतिस्तृप्यतु ।
२ ब्रह्मा तृप्यतु ।
३ वेदास्तृप्यन्तु ।
४ देवास्तृप्यन्तु ।
५ ऋषयस्तृप्यन्तु ।
६ सर्वाणिछन्दांसि तृप्यन्तु ।
७ ॐकारस्तृप्यतु ।
८ वषट्कारस्तृप्यतु ।
९ व्याहृतयस्तृप्यन्तु ।
१० सावित्री तृप्यतु ।
११ यज्ञास्तृप्यन्तु ।
१२ द्यावापृथिवी तृप्यताम् ।
१३ अन्तरिक्षं तृप्यतु ।
१४ अहोरात्राणि तृप्यन्तु ।
१५ साङ्ख्यास्तृप्यन्तु ।
१६ सिद्धास्तृप्यन्तु ।
१७ समुद्रास्तृप्यन्तु ।
१८ नद्यस्तृप्यन्तु ।
१९ गिरयस्तृप्यन्तु ।
२० क्षेत्रौषधिवनस्पतिगन्धर्वाप्सरसस्तृप्यन्तु ।
२१ नागास्तृप्यन्तु ।
२२ वयांसितृप्यन्तु ।
२३ गावस्तृप्यन्तु ।
२४ साध्यास्तृप्यन्तु ।
२५ विप्रास्तृप्यन्तु ।
२६ यक्षास्तृप्यन्तु ।
२७ रक्षांसिस्तृप्यन्तु ।
२८ भूतानि तृप्यन्तु ।
२९ एवमन्तानि तृप्यन्तु ।

ऋषितर्पणम्

अथ निवीती ऋषितीर्थेन कुशमध्येन द्विः प्रत्येकम् ।।

१ शतर्चिनस्तृप्यन्तु ।
२ माध्यमास्तृप्यन्तु ।
३ गृत्समदस्तृप्यतु ।
४ विश्वामित्रस्तृप्यतु ।
५ वामदेवस्तृप्यतु ।
६ अत्रिस्तृप्यतु ।
७ भरद्वाजस्तृप्यतु ।
८ वसिष्ठस्तृप्यतु ।
९ प्रागाथास्तृप्यन्तु ।
१० पावमान्यस्तृप्यन्तु ।
११ क्षुद्रसूक्तास्तृप्यन्तु ।
१२ महासूक्तास्तृप्यन्तु ।

आचार्यतर्पणम्

अथ प्राचीनावीती पितृतीर्थेन
कुशमूलैस्त्रिः प्रत्येकम् ।।

१ सुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्य-भारतमहाभारतधर्माचार्यास्तृप्यन्तु ।
२ जानन्तिबाहविगार्ग्यगौतमशाकल्य-बाभ्रव्यमाण्डव्यमाण्डूकेयास्तृप्यन्तु ।
३ गर्गीवाचक्नवी तृप्यतु ।
४ वडवाप्रातीथेयी तृप्यतु ।
५ सुलभामैत्रेयी तृप्यतु ।
६ कहोळं तर्पयामि ।
७ कौशीतकं तर्पयामि ।
८ महाकौशीतकं तर्पयामि ।
९ पैङ्ग्यं तर्पयामि ।
१० महापैङ्ग्यं तर्पयामि ।
११ सुयज्ञं तर्पयामि ।
१२ साङ्ख्यायनं तर्पयामि ।
१३ ऐतरेयं तर्पयामि ।
१४ महैतरेयं तर्पयामि ।
१५ शाकलं तर्पयामि ।
१६ बाष्कलं तर्पयामि ।
१७ सुजातवक्त्रं तर्पयामि ।
१८ औदवाहिं तर्पयामि ।
१९ महौदवाहिं तर्पयामि ।
२० सौजामि तर्पयामि ।
२१ शौनकं तर्पयामि ।
२२ आश्वलायनं तर्पयामि ।
२३ येचान्येआचार्यास्तेसर्वे तृप्यन्तु ।

पितृ तर्पणम्

अथ प्राचीनावीती पितृतीर्थेन
कुशमूलैस्त्रिः प्रत्येकम् ।।

अस्मत् पितरं अमुकशर्माणं अमुकगोत्रं वसुरूपं स्वधानमस्तर्पयामि ।
अस्मत् पितामहं अमुकशर्माणं अमुकगोत्रं रुद्ररूपं स्वधानमस्तर्पयामि ।
अस्मत् प्रपितामहं अमुकशर्माणं अमुकगोत्रं आदित्यरूपं स्वधानमस्तर्पयामि ।
अस्मत् मातरं अमुकदां अमुकगोत्रां वसुरूपां स्वधानमस्तर्पयामि ।
अस्मत् पितामहीं अमुकदां अमुकगोत्रां रुद्ररूपां स्वधानमस्तर्पयामि ।
अस्मत् प्रपितामहीं अमुकदां अमुकगोत्रां आदित्यरूपां स्वधानमस्तर्पयामि ।
अस्मत् सापत्नमातरं अमुकदां अमुकगोत्रां वसुरूपां स्वधानमस्तर्पयामि ।
अस्मत् मातामहं अमुकशर्माणं अमुकगोत्रं वसुरूपं स्वधानमस्तर्पयामि ।
अस्मत् मातृपितामहं अमुकशर्माणं अमुकगोत्रं रुद्ररूपं स्वधानमस्तर्पयामि ।
अस्मत् मातृप्रपितामहं अमुकशर्माणं अमुकगोत्रं आदित्यरूपं स्वधानमस्तर्पयामि ।
अस्मत् मातामहीं अमुकदां अमुकगोत्रां वसुरूपां स्वधानमस्तर्पयामि ।
अस्मत् मातृपितामहीं अमुकदां अमुकगोत्रां रुद्ररूपां स्वधानमस्तर्पयामि ।
अस्मत् मातृप्रपितामहीं अमुकदां अमुकगोत्रां आदित्यरूपां स्वधानमस्तर्पयामि ।
अस्मत् पत्नी अमुकदां अमुकगोत्रां वसुरूपां स्वधानमस्तर्पयामि ।
अस्मत् सुतं अमुकशर्माणं अमुकगोत्रं सपत्नीकं ससुतं वसुरूपं स्वधानमस्तर्पयामि ।
अस्मत् दुहितरं अमुकदां अमुकगोत्रां सभर्तृकां ससुतां वसुरूपां स्वधानमस्तर्पयामि ।
अस्मत् पितृव्यं अमुकशर्माणं अमुकगोत्रं सपत्नीकं ससुतं वसुरूपं स्वधानमस्तर्पयामि ।
अस्मत् मातुलं अमुकशर्माणं अमुकगोत्रं सपत्नीकं ससुतं वसुरूपं स्वधानमस्तर्पयामि ।
अस्मत् भ्रातरं अमुकशर्माणं अमुकगोत्रं सपत्नीकं ससुतं वसुरूपं स्वधानमस्तर्पयामि ।
अस्मत् पितृभगिनीं अमुकदां अमुकगोत्रां सभर्तृकां ससुतां वसुरूपां स्वधानमस्तर्पयामि ।
अस्मत् मातृभगिनीं अमुकदां अमुकगोत्रां सभर्तृकां ससुतां वसुरूपां स्वधानमस्तर्पयामि ।
अस्मत् भगिनीं अमुकदां अमुकगोत्रां सभर्तृकां ससुतां वसुरूपां स्वधानमस्तर्पयामि ।
अस्मत् श्वशुरं अमुकशर्माणं अमुकगोत्रं सपत्नीकं ससुतं वसुरूपं स्वधानमस्तर्पयामि ।
अस्मत् गुरुं अमुकशर्माणं अमुकगोत्रं सपत्नीकं ससुतं वसुरूपं स्वधानमस्तर्पयामि ।
अस्मत् शिष्यं अमुकशर्माणं अमुकगोत्रं सपत्नीकं ससुतं वसुरूपं स्वधानमस्तर्पयामि ।।

अज्ञात तर्पणम्

आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः ।
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ।
अतीत: कुलकोटीनां सप्तद्वीपनिवासिनाम् ।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ।।
इति त्रिर्दत्वा ।

ये के चास्मत्कुलेजाता अपुत्रा गोत्रिणो मृताः ।
ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ।।
इति चतुर्गुणं उपरि दशं वस्त्रं भूमौ
वामभागे निष्पीडयेत् ।।

कर्मनिवेदनम्

अनेन देवऋष्याचार्यपितृतर्पणाख्येन कर्मणा श्रीपरमेश्वरः प्रीयतां न मम ।।
द्विराचम्य ।।