श्रीमाणिकापराधक्षमापनस्तोत्रम्

न जानेऽहं किञ्चित्तव पदनुतिर्नास्ति हि मति:
न मे ज्ञानं किञ्चित्तव वरद ध्यानं च न हि मे।
न जानेऽहं पूजाविधिमपि न जाने प्रलपनं
त्वतो हीने दीने कुरु कुरु दयां मय्यभयद।।१।।

प्रभोह्यज्ञानोऽहं विरहितधनश्चापि सततं
अतो जाता सेवाच्युतिरपि तथा पापफलदा।
तदेतत्क्षन्तव्यं जनक सकलोद्धारक गुरो
कुशिष्यो जायेत क्वचिदपि गुरुर्नास्ति कुमतिः।।२।।

विभो पूजा दिव्या निखिलफलदा नैव रचिता
न वा दत्तं दिव्यं द्रविणमपि भूयस्तव मया।
अथापि स्नेहं त्वं मयि निरुपम यद्धि कुरुषे
कुशिष्यो जायेत क्वचिदपि गुरुर्नास्ति कुमतिः।।३।।

पृथिव्यां ते शिष्या जनक बहवः सन्ति ऋजव:
परं तेषां मध्ये विरलतरलोऽहं तव सुतः।
मदीयोऽयं त्यागः समुचितमिदं नो तव गुरो
कुशिष्यो जायेत क्वचिदपि गुरुर्नास्ति कुमतिः।।४।।

मया त्यक्ता देवा विविधपरिसेवाकुलतया
वयो नीतं व्यर्थं ह्युदरभरणे भोगकरणे।
इदानीं भो योगिन् तव यदि कृपा नापि भविता
निराधारो दीनो सुरजनक कं यामि शरणम्।।५।।

महामूढो हीनो भवति कृपया वाक्पतिसमो
महादीनो रङ्को भवति कृपया चैव धनदः।
महापङ्गुर्लङ्घ्यो भवति कृपया भूधरवरान्
अतस्त्वां याचेऽहं कुरु कुरु कृपां भो गुरुवर।।६।।

महाविष्णुश्चेमा जनक जगतीं पाति सततं
रजोयुक्तो ब्रह्मा सृजति सकलान्देवमनुजान्।
तमोयुक्तो रुद्रः सकलभुवनान्यत्ति सततं
प्रभुत्वं तेषां वै प्रभुवरकटाक्षस्य महिमा।।७।।

न मे मुक्ते: काङ्क्षा अतिविभववाञ्च्छापि न च मे
न मे ज्ञानापेक्षा गुरुवर सुखेच्छापि न पुनः।
अतस्त्वां याचेऽहं जनक जननं गच्छतु मम
प्रभो माणिक्येति गुरुवर गुरोर्नामजपनात्।।८।।

नाराधितोऽसि च कदापि गुरो मया त्वं
नाहं स्तुतिं च कृतवांस्तव माणिकेश।
देव त्वमेव मयि किञ्च हि यद्यनाथे
धत्से दयां च महतीं ह्युचितं तवैव।।९।।

भवाब्धिमग्नः स्मरणं त्वदीयं करोमि दत्तः प्रभुमाणिकेश।
नैतच्छठत्वं मम भावय त्वं मत्वा दयालुं शरणागतोऽस्मि।।१०।।

अपराधसहस्राणि यानि कुर्वन्ति मानवाः।।
तान्यस्य भक्त्या पाठात्तु माणिकः कुरुते क्षमाम्।।११।।

मत्समः पातकी नास्ति पापघ्नः त्वत्समो न हि।
इति समञ्चितं मनसा यथा योग्यं तथा कुरु।।

इति श्रीमन्माणिकानुजनृसिंहतनुजमनोहरमुनिवर्यविरचितं अपराधक्षमापनस्तोत्रं संपूर्णम्।।

महामंत्र

श्री भक्तकार्यकल्पद्रुम गुरुसार्वभौम श्रीमद्राजाधिराज योगिमहाराज त्रिभुवनानंद अद्वैत अभेद निरंजन निर्गुण निरालंब परिपूर्ण सदोदित सकलमतसस्थापित श्री सद्गुरु माणिकप्रभु महाराज की जय!

 

CONTACT US

Shri Manik Prabhu Samsthan,
Maniknagar,
Dist. Bidar,
Karnataka - 585353  (India)

E-mail: maniknagar@gmail.com 

Admin:  9448469913, 9448128389
Office: 9535119497,  9036656829
Seva Booking: 9008894889
Accommodation: 9902453075, 9731089499