श्रीमाणिकसहस्राक्षरकवचम्

ॐ अस्य श्रीमाणिकसहस्राक्षरसंयुतस्य कवचस्य श्रीनरसिंह ऋषिः।
श्रीमाणिकप्रभुर्देवता।
अनुष्टुपादि छन्दांसि।
श्रीमाणिकप्रभुरिति बीजम्।
भक्तकार्यकल्पद्रुमेति शक्तिः ।
त्रिभुवनानन्देति कीलकम्।
श्रीमाणिकप्रभुप्रीत्यर्थे जपे विनियोगः।।

अथ ध्यानम्।।
ॐ दत्तात्रेयं महेशानं सर्वयोगविशारदम्।
मनोहरसुतं गौरं वन्देऽहं माणिकप्रभुम्।।१।।

शान्तं सिंहासनस्थं मणिगणमुकुटमेकवक्त्रं द्विनेत्रं
शूलं मालां च दण्डमभयवरकर कञ्जनेत्रं प्रसन्नम्।
सर्वेशं सर्वनाथं प्रलयहुतवहं तत्त्वमस्यादिलक्ष्यं
निस्त्रैगुण्यं निरीहं भवभयहरणं माणिकाख्यं नमामि।।२।।

अतःपरं सर्वपुराणगुह्यं नि:शेषपापौघविनाशनं च।
वक्ष्यामि श्रीमाणिकराजवर्म कीर्तिप्रदं सर्वभयादिमोचनम्।।३।।

नमस्कृत्वा माणिकेशं सर्वाभरणभूषितम्।
वक्ष्ये गुरुमयं वर्म भक्तानां भयहारकम्।।४।।

शुद्धदेशे समासीनो यथावत् कल्पितासनः।
जितात्मा च जितप्राणश्चिन्तयेन्माणिकप्रभुम्।।५।।

हृत्पङ्कजासीनमनेकमूर्तिं स्वयंप्रभ कामितदायकं च।
कोशात्मकं कोकनदच्छविं तं ध्यायेद्गुरुं माणिकमाश्रयप्रदम्।।६।।

ध्यानावधूताखिलकर्मबन्धस्तदा स्मरेत् श्रीगुरुमाणिकाय।
ततस्त्विदं वर्म महत्सुपुण्यदं पठेत्तत: सौख्यमनेन लभ्यते।।७।।

मां पातु देवोऽखिलादेवरूपः संसारकूपे पतितं मदान्धम्।
धुनोतु मे पापमनेककर्मजं त्वन्नाम दिव्यं च अनेकसौख्यदम्।।८।।

सर्वत्र मां रक्षतु योगिनाथो योगात्मको यागकरो हविर्भुक।
अणोरणीयानुरुशक्तिधारी स माणिकः पातु भयादशेषात्।।९।।

यो क्ष्मास्वरूपेण बिभर्ति चैतत् पायात्स भूमौ गुरुराट् प्रभुः सदा।
योऽपां स्वरूपेण करोति जीवनं स माणिको रक्षतु मां जलेभ्यः।।१०।।

जगद्विभुर्जागृतिदायकश्च कल्पावसानाय करोति यः पुमान्।
स कालरूपोऽवतु मां दवाग्नेर्गुरुः प्रभुः श्रीगुरुमाणिकेशः।।११।।

प्रदीप्तविद्युत्कनकावभासो माणिक्यरूपोऽत्रिसुतः परेशः।
गौरो गुणाढ्यो गुरुनायकः सदा प्राच्यां स्थितो रक्षतु मामनन्तः।।१२।।

कमण्डलुं स्वर्णयुतं च दण्डं मालां त्रिशूलं च करे दधानः।
एकात्मकः शुभ्ररुचिर्हि माणिकः पायात्सदा मां दिशि दक्षिणस्याम्।।१३।।

चाम्पेयवर्णश्च सुवर्णसन्निभो मालाधरो दण्डधरो द्विनेत्रः।
वरप्रदः श्रीगुरुमाणिकाख्यः कर्मादिहीनोऽवतु मां प्रतीच्याम्।।१४।।

वराक्षमालाऽभयदण्डहस्तश्चाम्पेयवर्णाग्निसमानरूपः।
त्रिलोकपालश्च त्रिदेवतात्मा पायादुदीच्यां दिशि माणिकेशः।।१५।।

वराभयाद्यंकुशपाशहस्त: कमण्डलुं दण्डमखण्डधारकः।
स्वर्णद्युतिश्चैकमुखोऽवतान्मामीशान ऊर्ध्वं परमो हि माणिकः।।१६।।

मूर्धानमव्यान्मम माणिकेशो भालं ममाव्यादथ लोकपालः।
नेत्रं ममाव्याद्भगवान् द्विनेत्रो नासां सदा पातु महेश्वरेशः।।१७।।

पायाच्छ्रुती मे सुरयूथपैः स्तुतः कपोलमव्यान्मम कालनाशकः।
वक्त्रं सदा रक्षतु चैकवक्त्रो जिह्वां सदा रक्षतु वाङ्नियामकः।।१८।।

कण्ठं सदा रक्षतु कम्बुकण्ठः पाणिद्वयं पातु नृसिंहनायकः।
दोर्मूलमव्यान्मम देवनायको वक्षःस्थलं पातु बयासुतः सुधीः।।१९।।

ममोदरं पातु मनोहरात्मजो मध्यं ममाव्यादध वै दिगम्बरः।
जटाधरो रक्षतु नाभिदेशं पायात्कटिं पापहरः परेशः।।२०।।

ऊरुद्वयं पातु ममात्मयोनिर्जानुर्द्वयं मे गुरुनायकोऽव्यात्।
जङ्घाद्वयं पापहरो ममाव्यात्पादौ ममाव्यात्सकलार्तिनाशकः।।२१।।

बयात्मजः पातु दिनादियामे द्वितीययामेऽवतु दण्डधारकः।
दिनेश्वरः पातु तृतीययामे कौपीनवान् पातु दिनान्तयामे।।२२।।

पायान्निशादौ भयहारको मां जटाधरो रक्षतु मां निशीथे।
दयाकरः पातु निशावसाने श्रीमाणिको रक्षतु सर्वकाले।।२३।।

अन्त:स्थितं रक्षतु मां महेशः प्रभुः सदा रक्षतु मां बहिःस्थितम्।
तदन्तरे रक्षतु गौरवर्णः सिंहासनस्थोऽवतु मां समन्तात्।।२४।।

तिष्ठन्तमव्यात् त्रिगुणात्मको मां पायाद्व्रजन्तं निगमस्तुतो माम्।
वेदात्मको रक्षतु मां निषण्णं मां सर्वनाथोऽवतु वै शयानम्।।२५।।

मार्गेषु मां रक्षतु कालरूपी शैलादिदुर्गेषु परः प्रकाशः।
अरण्यवासादिमहाप्रवासे मां पातु सत्यः स्वजनार्तिनाशकः।।२६।।

सर्वेश्वरः सत्यचिदात्मकः प्रभुर्दीनार्तिनाशो भवहारकश्च।
सत्यात्मकः सत्यधरो भवारिः पायात्सदा मे भुवनैकपालः।।२७।।

अणोरणीयानुरुविक्रमश्च त्रिविक्रमो दण्डधरः परेशः।
दाता च दत्तश्च दयानिधिर्वै दण्डेन मां पातु रिपूंश्च हन्यात।॥२८।।

निहन्तु दस्यून हि भवार्तिनाशकः सुवर्णदण्डो गुरुमाणिकस्य।
शार्दूलव्याघ्रा हि वृकादिहस्तिन: सन्त्रासयत्वीशकरस्य दण्डः।।
नानार्तिरोगान्निरयादिकाच्च श्रीमाणिको रक्षतु मामनाथम्।।२९।।

दुर्भिक्षदु:शकुनदर्गतिदौर्मनस्यं दु:स्वप्नदुर्व्यसनदुर्यशदुर्मतीश्च।
व्याधींश्च रोगभयचोरभयादिपीडां सर्वां विनाशयतु मे गुरुमाणिकाख्यः।।३०।।

ॐ नमो भगवते श्रीगुरुमाणिकाय सकलात्मकाय सर्वोपनिषत्स्वरूपाय सकलमन्त्रयन्त्रतन्त्रात्मकाय दत्तात्रेयायात्रिसुताय त्रिगुणात्मकाय त्रिगुणरहिताय द्रां बीजस्थाय ॐ श्रीं ह्रीं क्लीं ग्लौं द्रां इति षडक्षराय ॐ श्रीमाणिकाय नम इत्यष्टाक्षराय सत्यानन्दचिदात्मकाय पूर्णानन्दैकविग्रहाय ॐ आं ह्रीं क्रौं एहि दत्तात्रेयाय स्वाहेति द्वादशाक्षराय ॐ ऐं क्लां क्लीं क्लू ह्रां ह्रीं ह्रूं सौः श्रीमाणिकाय स्वाहेति षोडशाक्षराय श्रीविष्णवे हरये उन्मत्तायानन्ददायकाय दिगम्बराय मुनये बालाय पिशाच्चवद्विहरणाय ज्ञानसागराय ॐ नमो भगवते दत्तात्रेयाय स्मरणमात्रसन्तुष्टाय महाभयनिवारणाय महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्तपिशाच्चवेषाय महायोगिने अवधूतायानुसूयानन्दवर्धनायात्रिपुत्राय सर्वसम्पत्प्रदाय ॐ भवबन्धमोचनाय आं साध्यबन्धनाय ह्रीं सुभूरिदाय क्रौं साध्याकर्षणाय ऐं वाक्प्रदाय क्लीं जगत्त्रयवशीकरणाय सौः सर्वमनःक्षोभयणाय श्रीं महासम्पत्प्रदाय ग्लौं भूमण्डलाधिपत्यदाय द्रां चिरञ्जीविने वषट् आकर्षय आकर्षय हूं विद्वेषय विद्वेषय फट् ममारीनुच्चाटयोच्चाटय ठः ठः स्तम्भय स्तम्भय खें खें मारय मारय नमः सम्पन्नय सम्पन्नय स्वाहा मां पोषय पोषय परमन्त्रपरयन्त्रपरतन्त्राणि छिन्धि छिन्धि ग्रहान्निवारय व्याधिग्रहान्निवारय व्याधिं नाशय नाशय दु:खं हर हर दारिद्र्यं विद्रावय विद्रावय देहं पोषय पोषय चित्तं तोषय तोषय सर्वमन्त्रस्वरूपाय सर्वतन्त्रस्वरूपाय सर्वपल्लवस्वरूपाय ॐ नमः शिवाय स्वाहेत्युपनिषत्स्वरूपाय सुवर्णकबरीभारमण्डिताय कञ्जलोचनाय नेत्रकज्जलरञ्जिताय मृगमदाङ्कितभालाय मणिगणमुगुटाय सुनासिने प्रवालोष्ठाय कुन्दमुकलाग्रदन्ताय कम्बुकण्ठाय स्वर्णयज्ञोपवीतिने रत्नावलिहारविराजिताय रत्नकुण्डलाय श्रीवत्साङ्किताय द्विबाहवे सुन्दरोदराय गम्भीरनाभिसंयुताय हेमकिरीटकटिसूत्रयुताय स्वर्णकौपीनधारिणे नानारत्नविराजितमञ्जमञ्जीरनूपुराय हेमरत्नपादकोपेताय आनन्दमूर्तये चित्स्वरूपाय श्रीबयाम्बासुताय मनोहरात्मजाय नृसिंहाग्रजाय हनुमदनुजाय दात्रे मनोहरप्रियाय श्रीवत्सगोत्रसम्भूताय निगमोक्तमार्गसंस्थापकाय भूतप्रेतपिशाच्चादिभयनिवारकाय दण्डधारिणे जगद्रक्षणाय सूर्याग्निशशिविद्युल्लतादिकोटिगणप्रभायुताय सकललोकैकगुरवे भक्तकार्यकल्पद्रमाय गुरुसार्वभौमाय श्रीमद्राजाधिराजाय योगिमहाराजाय त्रिभुवनानन्दाय अद्वैताय अभेदाय निरञ्जनाय निर्गुणाय निरालम्बाय परिपूर्णाय सदोदिताय सकलमतस्थापिताय सद्रुमाणिकप्रभवे महाराजकी प्रेरकाय जय जय सर्वोद्धारकाय श्रीगुरुमाणिकाय नमस्ते अनेककाण्डकटाहप्रपालकाय सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकहर्त्रे अणोरप्यणुस्वरूपाय बृहतोपि बृहत्स्वरूपाय श्रीमाणिकाय नमस्ते नमस्ते।।

इत्येतत्कवचं पुण्यं माणिकस्य महात्मनः।
सर्वपीडाप्रशमनं तारकं सर्वदेहिनाम्।।१।।

यस्त्रिकाले पठेन्नित्यं माणिक्यकवचं शुभम्।
न जायते भयं तस्य क्वापि श्रीगुर्वनुग्रहात्।।२।।

स्वल्पायुः प्राप्तमृत्युर्वा महारोगैश्च पीडितः।
सुखं प्राप्नोति वै सद्यो दीर्घायुत्वं च विन्दति।।३।।

सर्वमङ्गलदं चैतत् सर्वदारिद्र्यनाशनम्।
माणिकाख्यमिदं वर्म यो धत्ते स सुखी भवेत्।।४।।

ब्रह्महत्यादिपापैश्च मुच्यते चोपपातकैः।
न पुनर्भवमाप्नोति गुरुवर्मानुभावतः।।५।।

सहस्रारमिदं चक्रं सहस्राक्षरसंयुतम्।
यः पठेत्तं न पश्यन्ति पिशाच्चाद्याश्च राक्षसाः।।६।।

इतीदं कवचं पुण्यं सर्वदुःखविनाशनम्।
कुरुते भस्मलेपं य: पठनेन सुखी भवेत्।।७।।

अभक्ताय न देयं वै माणिक्यकवचं त्विदम्।
प्रभुभक्ताय शान्ताय वर्म देयमिदं खलु।।८।।

इति श्रीमन्माणिकानुजनृसिंहतनुजमनोहरमुनिवर्यविरचितं माणिकसहस्राक्षरकवचं सम्पूर्णम्।।

महामंत्र

श्री भक्तकार्यकल्पद्रुम गुरुसार्वभौम श्रीमद्राजाधिराज योगिमहाराज त्रिभुवनानंद अद्वैत अभेद निरंजन निर्गुण निरालंब परिपूर्ण सदोदित सकलमतसस्थापित श्री सद्गुरु माणिकप्रभु महाराज की जय!

 

CONTACT US

Shri Manik Prabhu Samsthan,
Maniknagar,
Dist. Bidar,
Karnataka - 585353  (India)

E-mail: maniknagar@gmail.com 

Admin:  9448469913, 9448128389
Office: 9535119497,  9036656829
Seva Booking: 9008894889
Accommodation: 9902453075, 9731089499