श्रीमाणिकरक्षास्तोत्रम्

ॐ अस्य श्रीमाणिकरक्षास्तोत्रमन्त्रस्य नारसिंहऋषिः।
श्रीमाणिकप्रभुदेवता अनुष्टुप् छन्दः श्रीमाणिकप्रभुप्रीत्यर्थे जपे विनियोगः।।

चरितं माणिकाख्यस्य बहकोटिसुविस्तरम्।
एकैकमक्षरं पुंसां सर्वपापप्रणाशनम्।।१।।

ध्यात्वा चाम्पेयवर्णाभं माणिकं कञ्जलोचनम्।
नरसिंहसमोपेतं कबरीभारमण्डितम्।।२।।

सर्वपङ्कोद्भवधरं दण्डहस्तमनायकम्।
स्वलीलया जनांस्त्रातुमाविर्भूतमजं प्रभुम्।।३।।

श्रीमाणिकाख्यामिमां रक्षां पठेत्प्राज्ञो हि कामदाम्।
सर्वपापप्रशमनीं सर्वसौख्यप्रदायिनीम्।।४।।

शिरो मे माणिको देवः पातु सर्वेश्वरो विभुः।
माणिकः पातु भालं मे नरसिंहसुतात्मजः।।५।।

बयादेवीसुतो विप्रो दृशौ मे पातु माणिकः।
श्रीमाणिकोऽवतु घ्राणं मनोहरसुत: सुधीः।।६।।

मुखं मे पातु विश्वेशो माणिको दीनवत्सलः।
श्रीमाणिकः पातु जिह्वां विद्यानिधिरुमापतिः।।७।।

कण्ठं श्रीमाणिकः पातु कम्बुकण्ठो दयानिधिः।
स्कन्धौ श्रीमाणिकः पातु सर्वैश्वर्यप्रदायकः।।८।।

करौ श्रीमाणिकः पातु सर्वायुधधरो महान्।
हृदयं माणिकः पातु हृदयस्थो हृदि स्थितः।।९।।

मध्यं श्रीमाणिकः पातु मध्यान्ताद्यैश्च वर्जितः।
नाभिं श्रीमाणिकः पातु हनुमन्तानुजो हरिः।।१०।।

नरसिंहाग्रजो नन्दः कटिं श्रीमाणिकोऽवतु।
ऊरू श्रीमाणिकः पातु सर्वलोकदयाकरः।।११।।

जानुनी माणिकः पातु सुरेशो दीनवल्लभः।
जङ्घे श्रीमाणिकः पातु जटाकौपीनधारकः।।१२।।

पादौ श्रीमाणिकः पातु नेत्रकज्जलधारकः।
श्रीमाणिको जगन्नाथः सर्वतः पातु मां सदा।।१३।।

इमां माणिकरक्षां तु यः पठेत्भक्तिमानसः।
स दीर्घायुः सुखं चैव विन्दते नात्र संशयः।।१४।।

भूतप्रेतपिशाचाद्या भूचरा: खेचरा अपि।
तं न पश्यन्ति ते दुष्टा रक्षितं गुरुनामभिः।।१५।।

माणिकप्रभो माणिक्य माणिकेशेति वा स्मरन्।
नरो न लिप्यते दु:खात्सुखं पुण्यं च विन्दति।।१६।।

इमां माणिकरक्षां तु गुरुनामविभूषिताम्।
कण्ठे यो धारयेत्तस्य करस्थाः सर्वदेवताः ।।१७।।

वज्रपञ्जरमित्याख्यं माणिक्यकवचं शुभम्।
यः स्मरेत्स तु सर्वत्र विजयी कीर्तिमाप्नुयात्।१८।।

प्रेरयामास बुद्धिं मे यथा श्रीगुरुमाणिकः।
माणिक्यकवचं पुण्यं तथैव च कृतं मया।।१९।।

मरूप: सर्वशैवानां अरूपो वैष्णवांस्तथा।
ब्रह्मज्ञानां णरूपश्च इरूप: सर्वमायिनाम्।।
प्रजापतीनां सर्वेषां करूपो गुरुमाणिकः।।२०।।

सन्दरौ रूपसम्पन्नौ विशालाक्षौ महाबलौ।
हेमरत्नादिभिर्युक्तौ स्वच्छश्वेताम्बरावुभौ।।२१।।

बहरूपधरौ शान्तौ भक्तकामप्रपूरकौ।
पुत्रौ मनोहरस्यैतौ बन्धू नृहरिमाणिकौ।।२२।।

शरण्यौ सर्वजन्तूनां महाबलपराक्रमौ।
भक्तविघ्ननिहन्तारौ त्रायेतां नो हि सद्गुरू।।२३।।

सर्वकार्यफलदौ प्रसौख्यदौ शुभ्रपीतवसनौ महेश्वरौ।
रक्षणाय नरसिंहमाणिकावग्रतः पथि सदैव गच्छताम्।।२४।।

भक्त्या स्तुतो महायोगी काष्ठदण्डधरो युवा।
नरसिंहसमायुक्तो माणिकः पातु मां सदा।२५।।

श्रीवत्सगोत्रसम्भूतो मनोहरसुतः प्रभुः।
गौरो गुणाढ्यो गुरुराट् नरसिंहाग्रजो बली।।२६।।

हनुमन्तानुजो दत्तस्त्वात्रेय: कमलापतिः।
बयादेवीसुतो धीरो दण्डी दीप्तो दयाकरः।।२७।।

इत्येतानि जपेन्नित्यं यो भक्तः श्रद्धयान्वितः।
अनेकमखसम्भूतं सुपुण्यं लभते ध्रुवम्।।२८।।

माणिकं स्वर्णवर्णाभं कञ्जाक्षं शुभ्रवाससम्।
स्तुवन्ति नामभिस्त्वेतैर्न ते संसारिणो जनाः।२९।।

श्रीमाणिक्यमनेकयोगनिलयं सर्वार्थदं सौख्यदम।
सर्वेशं भवनाशनं हरिहरैः स्तव्यं सुराधीश्वरम्।
काशीशं करुणानिधिं गुरुवरं संसारतापापहम्।
वन्दे योगनिधिं मनोहरसुतं भक्त्यैकगम्यं गुरुम्।।३०।।

योगीन्द्रेशैः पूजिताय भवनाशाय वेधसे।
गुरुनाथाय नाथाय माणिकप्रभवे नमः।।३१।।

श्रीदत्त दत्त मम नाथ महेश दत्त
श्रीदत्त दत्त भवहारक माणिकेश।
श्रीदत्त दत्त भयहारण माणिकेश
श्रीदत्त दत्त शरणं भव माणिकेश।।३२।।

श्रीमाणिकेशचरणौ मनसा स्मरामि
श्रीमाणिकेशचरणौ वचसा गृणामि।
श्रीमाणिकेशचरणौ शिरसा नमामि
श्रीमाणिकेशचरणौ शरणं प्रपद्ये।।३३।।

माता दत्तो मत्पिता माणिकेश:
स्वामी दत्तो मत्सखा माणिकेशः।
सर्वस्वं मे माणिकेशो दयालु:
नान्यं जाने नैव जाने न जाने।।३४।।

नानालङ्कारदीप्ताय सर्वैश्वर्यप्रदायिने।
योगिभिर्ध्यानगम्याय माणिकप्रभवे नमः।।३५।।

लोकाभिरामं भवबन्धनाशं राजीवनेत्रं बहुभिः स्तुतं च।
कारुण्यरूपं करुणानिधिं तं श्रीमाणिकेशं शरणं प्रपद्ये।।३६।।

मनोजवं सर्वफलप्रदं च जगद्विधातृमहत्सुरेशम्।
चतुर्मुखं चन्द्रनिभं नृसिंहं माणिक्यशिष्यं शरणं प्रपद्ये।।३७।।

कूजन्तं माणिकेशेति मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां वन्दे नृहरिकोकिलम्।।३८।।

विपत्तिनाशकर्तारं दातारं सर्वसम्पदाम्।
श्रीमाणिकप्रभुं दत्तं भूयो भूयो नमाम्यहम्।।३९।।

भर्जनं तापबीजानामर्जनं सुखसम्पदाम्।
तर्जनं कालदूतानां माणिकेशेति गर्जनम्।।४०।।

दत्तो योगिमणिः सदा विजयते दत्तं सुरेशं भजे
दत्तो सर्वकलाधरो हरिहरैः सेव्यो गुरुर्माणिकः।
दत्तान्नास्ति परायणं परतरं माणिक्यदासोस्म्यहं
दत्ते चित्तलय: सदा भवतु मे माणिक्य मामुद्धर।।४१।।

ध्यायेदाजानुबाहुं हरिहरशरणं बद्धसिंहासनस्थं
शुभ्रं वासोवसानं निखिलभयहरं कञ्जनेत्रं प्रसन्नम्।
भक्तैः पूज्यं सुवन्द्यं भवभयहरणं गौरवर्णं गुणाढ्यं
त्रीन्लोकान्पालयन्तमभयवरकरं माणिकेशं सुरेशम्।।४२।।

इति श्रीमन्माणिकानुजनृसिंहतनुजमनोहरमुनिवर्यविरचितं माणिकरक्षास्तोत्रं सम्पूर्णम्।।

महामंत्र

श्री भक्तकार्यकल्पद्रुम गुरुसार्वभौम श्रीमद्राजाधिराज योगिमहाराज त्रिभुवनानंद अद्वैत अभेद निरंजन निर्गुण निरालंब परिपूर्ण सदोदित सकलमतसस्थापित श्री सद्गुरु माणिकप्रभु महाराज की जय!

 

CONTACT US

Shri Manik Prabhu Samsthan,
Maniknagar,
Dist. Bidar,
Karnataka - 585353  (India)

E-mail: maniknagar@gmail.com 

Admin:  9448469913, 9448128389
Office: 9535119497,  9036656829
Seva Booking: 9008894889
Accommodation: 9902453075, 9731089499