माणिकाष्टकस्तोत्रम्
प्रयागे गयायां तथा काशिकायां कृतं माघकार्तीकयोः स्नानमेव।
प्रभो: पादकञ्जे मनश्चेन्नदत्तं ततः किं ततः किं ततः किं ततः किम्।।१।।
अनेकानि शास्त्राण्यधीतानि येन त्वधीताश्च वेदा ह्यनेकाश्च येन।
प्रभो: पादकञ्जे मनश्चेन्नदत्तं ततः किं ततः किं ततः किं ततः किम्।।२।।
महादेवपूजा महाशक्तिपूजा महाविष्णुपूजा कृता येन तेन।
प्रभो: पादकञ्जे मनश्चेन्नदत्तं ततः किं ततः किं ततः किं ततः किम्।।३।।
सदा विघ्नराजस्य पूजा कृता वै सदा पूजितो भानुदेवो हि येन।
प्रभो: पादकञ्जे मनश्चेन्नदत्तं ततः किं ततः किं ततः किं ततः किम्।।४।।
हटाख्यो हि योगस्तथा राजयोगो लयाख्यश्च योग: कृतो येन तेन।
प्रभो: पादकञ्जे मनश्चेन्नदत्तं ततः किं ततः किं ततः किं ततः किम्।।५।।
अनेकानि दानानि दत्तानि येन कृतान्यप्यनेकानि मन्त्राणि येन।
प्रभो: पादकञ्जे मनश्चेन्नदत्तं ततः किं ततः किं ततः किं ततः किम्।।६।।
तुला देहदानं च गोभूहिरण्यं महाराज्यदानं च दत्तं हि येन।
प्रभो: पादकञ्जे मनश्चेन्नदत्तं ततः किं ततः किं ततः किं ततः किम्।।७।।
महासत्यलोकं हि वैकुंठलोकं तथा प्राप्तमस्त्येव गोशैवलोकम्।
प्रभो: पादकञ्जे मनश्चेन्नदत्तं ततः किं ततः किं ततः किं ततः किम्।।८।।
य इदं सर्वफलदं पठेत्स्तोत्रमनुत्तमम्।
स माणिक्यप्रसादाद्धि भुक्तिं मुक्तिं च विन्दति।।
इति श्रीमन्माणिकानुजनृसिंहतनुजमनोहरमुनिवर्यविरचितं माणिकाष्टकस्तोत्रं सम्पूर्णम्।।
महामंत्र
श्री भक्तकार्यकल्पद्रुम गुरुसार्वभौम श्रीमद्राजाधिराज योगिमहाराज त्रिभुवनानंद अद्वैत अभेद निरंजन निर्गुण निरालंब परिपूर्ण सदोदित सकलमतसस्थापित श्री सद्गुरु माणिकप्रभु महाराज की जय!
CONTACT US
Shri Manik Prabhu Samsthan,
Maniknagar,
Dist. Bidar,
Karnataka - 585353 (India)
E-mail: maniknagar@gmail.com
Admin: 9448469913, 9448128389
Office: 9535119497, 9036656829
Seva Booking: 9008894889
Accommodation: 9902453075, 9731089499