Select Page

मन्त्रमार्तण्ड

ध्यानम्

श्रीयोगिपुङ्गवसुरावलिपूजितांघ्रिं मायान्धकारपरिभेदनतिग्मरश्मिम्।
ध्यायेत्त्रयीमयमचिन्त्यमहानुभावं ज्ञेयं सतां मणिगुरुप्रभुराजमौलिम्।।

मन्दस्मिताननमनिन्दितसुन्दराङ्गं वन्दारुकल्पवनमादृतमानुषाङ्गम्।
वृन्दारकालि परिवेष्टितमिन्दिरेशं वन्दे मणीन्द्रगुरुनामकमाद्यतेजः।।

योगासनस्थं घनचित्प्रकाशं भोगादिभक्तेप्सितकामधेनुम्।
वागादिविद्याकृतिमादिदेवं सौगुण्यवार्धिं शरणं व्रजामि।।

चिन्मुद्राञ्चितहस्तयुग्ममतुलं सन्मार्गदं सेवताम्
जन्मादिप्रविदूरवीक्षणलवं तन्मात्रलक्ष्यं सदा।
मन्मस्तान्तरदिव्यपद्मगलितं चिन्मात्रगम्यं सदा
हृन्मायाविनिवृत्तयेऽत्र सततं वीक्षामि सम्भावितम्।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
ध्यायामि ध्यानम्।।

आवाहनम्

ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात्।
स भूमिं᳚ वि॒श्वतो᳚ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम्।।

आवाहयामीह जगन्निवास देवादिदेवाच्युत माणिकेन्द्र।
को वास्ति नेता नतसन्ततीनां भुवि त्वदन्यः परमं पदं त्वम्।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
आवाहयामि।।

आसनम्

ॐ पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य᳚म्।
उ॒तामृ॑त॒त्वस्येशा᳚नो॒ यदन्ने᳚नाति॒रोह॑ति।।

श्रीरत्नसिंहासनमेतदीश भूरत्न तुभ्यं प्रददामि विष्णो।
गुरुत्रयाकार पुरत्रयेश कुरु त्रिलोकीरमणैनमार्यम्‌।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
आसनं समर्पयामि।।

पाद्यम्‌

ॐ ए॒तावा॑नस्य महि॒मातो॒ ज्यायॉं᳚श्च॒ पूरु॑षः।
पादो᳚ऽस्य॒ विश्वा᳚ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं᳚ दि॒वि।।

पाद्यं ददामि नतसन्ततिभागधेय वेद्याय वेद्यवचसा मणिदेशिकेन्द्र।
आद्याय सर्वजगतां निजभक्तलोकास्वाद्यं मया शुचि समाहृतमच्छमम्बु।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
पादयोः पाद्यं समर्पयामि।।

अर्घ्यम्‌

ॐ त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो᳚ऽस्ये॒हाभ॑व॒त्पुन॑:।
ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि।।

उशीरमल्लीकुसुमादिदिव्यसुवासनावासितमर्घ्यवारि।
प्रदीयते हस्तसरोजयुग्मे प्रसारयाम्यद्य गुरो मणीन्द्र।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
हस्तयोः अर्घ्यं समर्पयामि।।

आचमनीयम्

ॐ तस्मा᳚द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो᳚ पु॒रः।।

सौवर्णपात्रे सलिलं मयेदं समाहृतं भक्तिवशाद्विशुद्धम्।
श्रीशर्कराद्यैरभिमिश्रितं च भूचक्रनाथाचमनं कुरुष्व।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
मुखे आचमनीयं समर्पयामि।।

मलापकर्षस्नानम्

ॐ हिर॑ण्यवर्णा॒: शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्र॑:।
अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्तान॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु।।

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्यं॒ जना॑नाम् ।  
म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ॥

यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ शु॒क्रास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ॥

शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे ।
सर्वाꣳ॑ अ॒ग्नीꣳ र॑प्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ निध॑त्त ॥  

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
मलापकर्षणस्नानं समर्पयामि।।

पञ्चामृतस्नानम्

ॐ यत्पुरु॑षेण ह॒विषा᳚ दे॒वा य॒ज्ञमत᳚न्वत।
व॒स॒न्तो अ॑स्यासी॒दाज्यं᳚ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः।।

पञ्चामृतैरीश गुरो मणीन्द्र सिञ्चामि ते दिव्य मनोहराङ्गम्।
पञ्चाननस्त्वं ननु वैरिहस्तीट्पञ्चत्वकृत्ये मणिदेशिकेन्द्र।।

ॐ आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वत॑: सोम॒ वृष्ण्य᳚म्।
भवा॒ वाज॑स्य सङ्ग॒थे।।

ॐ द॒धि॒क्राव्णो᳚ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिन॑:।
सु॒र॒भि नो॒ मुखा᳚ कर॒त्प्र ण॒ आयूं᳚षि तारिषत्।।

ॐ घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑।
अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा᳚कृतं वृषभ वक्षि ह॒व्यम्।।

ॐ मधु॒ वाता᳚ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः।
माध्वी᳚र्नः स॒न्त्वोष॑धीः।।

मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रज॑:।
मधु॒ द्यौर॑स्तु नः पि॒ता।।

मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्य॑:।
माध्वी॒र्गावो᳚ भवन्तु नः।।

ॐ स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तु नाम्ने।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑मॉं॒ अदा᳚भ्यः।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
पयादि पञ्चामृतस्नानं समर्पयामि।।

गन्धादि पञ्चरत्नस्नानम्‌

पयादि पञ्चामृतस्नानानन्तरेण गन्धादि पञ्चरत्नैः स्नपयिष्ये।।

ॐ गं॒ध॒द्वा॒रां दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी᳚म्।
ई॒श्वरीं᳚ सर्व॑भूता॒नां तामि॒होप॑ह्वये॒ श्रिय᳚म्।।

ॐ यो॑ऽपां पुष्पं॒ वेद॑।
पुष्प॑वान्प्र॒जावा᳚न्पशु॒मान्भ॑वति।
च॒न्द्रमा॒ वा अ॒पां पुष्प᳚म्।

ॐ याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणी᳚:।
बृह॒स्पति॑प्रसूता॒स्ता नो᳚ मुञ्च॒न्त्वंह॑सः।।

ॐ स हि रत्ना᳚नि दा॒शुषे᳚ सु॒वाति॑ सवि॒ता भग॑:।
तं भा॒गं चि॒त्रमी᳚महे।।

ॐ काण्डा᳚त्काण्डात्प्र॒रोह᳚न्ती॒ परु॑ष: परुष॒: परि॑।
ए॒वा नो᳚ दूर्वे॒ प्रत॑नु स॒हस्रे᳚ण श॒तेन॑ च।।

शुद्धोदकस्नानम्‌

ॐ आपो॒हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन।
म॒हे रणा᳚य॒ चक्ष॑से।।

यो व॑: शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ हन॑:।
उ॒श॒तीरि॑व मा॒तर॑:।।

तस्मा॒ अर᳚ङ्गमामवो॒ यस्य॒ क्षया᳚य॒ जिन्व॑थ।
आपो᳚ ज॒नय॑था च नः।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
शुद्धोदकस्नानं समर्पयामि।।

महाभिषेकस्नानम्‌

श्रीगङ्गायमुनादिदिव्यतटिनीसिन्धूत्तमाद्याहृतैः
शुद्धाम्भोभिरिहातनुष्व महितस्नानं मदिष्टाप्तये।
यत्स्नानाम्बुभिरेव भूर्यघमहो धन्यं स्वयं मन्यते
स्वात्मानं हरिशम्भुकञ्जरुहभूमूर्ते मणीट्‌देशिक।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
महाभिषेकस्नानं समर्पयामि।।

प्रतिष्ठापनम्

ॐ तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम्।
अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो᳚ दि॒वे बृ॑ह॒ते साद॑नाय।।

गृहा वै प्रतिष्ठा सूक्तं तत्प्रतिष्ठिततमया वाचा शंस्तव्यं तस्माद्यद्यपि दूर इव पशूँल्लभते गृहानेवैनानाजिगमिषति गृहा हि पशूनां प्रतिष्ठा प्रतिष्ठा।।

उत्तमाप्रतिष्ठा तद्दैवं क्षत्त्रं सा श्रीस्तदाधिपत्यं तद्ब्रध्नस्य विष्टपं तत्प्रजापतेरायतनं तत्स्वाराज्यमृध्नोत्येतमेवैताभिरेकविंशत्यैकविंशत्या।।

ॐ नर्य॑ प्र॒जां मे॑ गोपाय।
अ॒मृ॒त॒त्वाय॑ जी॒वसे᳚।
जा॒तां ज॑नि॒ष्यमा॑णां च।
अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम्।
सुप्रतिष्ठितमस्तु।।

वस्त्रार्पणम्

ॐ तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः।
तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये।।

पीताम्बरद्वन्द्वमिदं महेशानीतं लसद्धाटकतन्तुक्लृप्तम्।
समञ्चितं भो परिधत्स्व योगिन्नुतोत्तरीयं च परं विधेहि।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
वस्त्रयुग्मं समर्पयामि।।

चन्दनाद्युपचारः

ॐ तस्मा᳚द्य॒ज्ञात्स᳚र्व॒हुत॒: सम्भृ॑तं पृषदा॒ज्यम्।
प॒शून्ताँश्च॑क्रे वाय॒व्या᳚नार॒ण्यान्ग्रा॒म्याश्च॒ ये।।

कर्पूरकालागरुमुख्यगन्धैर्घनं मया चन्दनमेतदार्य।
लिप्तं तवाङ्गे विनिवारणाय मम प्रकृत्या विनिलेपनस्य।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
गन्धान्धारयामि।।

पुष्पार्पणम्

ॐ तस्मा᳚द्य॒ज्ञात्स᳚र्व॒हुत॒ ऋच॒: सामा᳚नि जज्ञिरे।
छन्दां᳚सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा᳚दजायत।।

श्रीमालतीजातिसरोजमल्लीप्रवालबिल्वातसिकासुमानि।
समर्पयामीह मणीश दिव्यानुताक्षतान् मौक्तिकमालिकाश्च।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
पुष्पाक्षतान् समर्पयामि।।

ॐ निध॑नपतये॒ नमः।
निध॑नपतान्तिकाय॒ नमः।
ऊर्ध्वाय॒ नमः।
ऊर्ध्वलिङ्गाय॒ नमः।
हिरण्याय॒ नमः।
हिरण्यलिङ्गाय॒ नमः।
सुवर्णाय॒ नमः।
सुवर्णलिङ्गाय॒ नमः।
दिव्याय॒ नमः।
दिव्यलिङ्गाय॒ नमः।
भवाय॒ नमः।
भवलिङ्गाय॒ नमः।
शर्वाय॒ नमः।
शर्वलिङ्गाय॒ नमः।
शिवाय॒ नमः।
शिवलिङ्गाय॒ नमः।
ज्वलाय॒ नमः।
ज्वललिङ्गाय॒ नमः।
आत्माय॒ नमः।
आत्मलिङ्गाय॒ नमः।
परमाय॒ नमः।
परमलिङ्गाय॒ नमः।
एतथ्सोमस्य॑ सूर्य॒स्य॒ सर्वलिङ्ग स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रम्।।

स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नम॑:।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम्।
भ॒वोद्भ॑वाय॒ नमः।।

वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नम॑: श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒
नम॒: काला॑य॒ नम॒: कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒
बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒: सर्व॑भूतदमनाय॒ नमो॑
म॒नोन्म॑नाय॒ नम॑:।।

अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः।
सर्वे᳚भ्य: सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः।।

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि।
तन्नो॑ रुद्रः प्रचो॒दया᳚त्।।

ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒
ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑
शि॒वो मे॑ अस्तु सदाशि॒वोम्।।

ॐ अहि॑रिव भो॒गैः पर्ये᳚ति बा॒हुं ज्याया᳚ हे॒तिं प॑रि॒बाध॑मानः।
ह॒स्त॒घ्नो विश्वा᳚ व॒युना᳚नि वि॒द्वान्पुमा॒न्पुमां᳚सं॒ परि॑ पातु वि॒श्वत॑:।।

ॐ या गुं॒गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती।
इ॒न्द्रा॒णीम॑ह्व ऊ॒तये᳚ वरुणा॒नीं स्व॒स्तये᳚।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
हरिद्राकुङ्कुमादिनानापरिमलद्रव्याणि समर्पयामि।।

करवीरैर्जातिकुसुमैश्चम्पकैर्बकुलैः शुभैः।
शतपत्रैश्च कल्हारैरर्चयेत्पुरुषोत्तमम्।।

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मया हृतानि पूजार्थं पुष्पाणि प्रतिगृह्यताम्।।

सेवन्तिका बकुलचम्पकपाटलाब्जैः
पुन्नागजातिकरवीररसालपुष्पैः।
बिल्वप्रवालतुलसीदलमालतीभि:
त्वां पूजयामि जगदीश्वर मे प्रसीद।।

आरामपुष्पाणि मनोहराणि जलाजलस्थानि सुपल्लवानि।
सुवर्णपुष्पाणि मयार्पितानि त्वं गृह्यतां देववर प्रसीद।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।।

अर्चनम्‌

ॐ भक्तकार्यकल्पद्रुमाय नमः।
ॐ गुरुसार्वभौमाय नमः।
ॐ श्रीमद्राजाधिराजाय नमः।
ॐ योगिमहाराजाय नमः।
ॐ त्रिभुवनानन्दाय नमः।
ॐ अद्वैताय नमः।
ॐ अभेदाय नमः।
ॐ निरञ्जनाय नमः।
ॐ निर्गुणाय नमः।
ॐ निरालम्बाय नमः।
ॐ परिपूर्णाय नमः।
ॐ सदोदिताय नमः।
ॐ सकलमतस्थापिताय नमः।
ॐ सद्गुरु माणिक्यप्रभुमहाराजाय नमः।।

नामपूजां समर्पयामि।।

धूपम्

ॐ तस्मा॒दश्वा᳚ अजायन्त॒ ये के चो᳚भ॒याद॑तः।
गावो᳚ ह जज्ञिरे॒ तस्मा॒त्तस्मा᳚ज्जा॒ता अ॑जा॒वय॑:।।

श्रीमद्दशाङ्गांचितधूपमेनं सगोघृतं चन्दनवह्निक्लृप्तम्।
गृहाण माणिक्यविभो ददामि स्पृहास्तु तेऽत्र स्पृहधीरधीश।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
धूपमाघ्रापयामि।।

दीपम्

ॐ यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन्।
मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा᳚ उच्येते।।

नमस्त्रिलोकान्धकनाशनाय वैश्वानरेणार्चितदीपमेनम्।
गृहाण भक्त्या विनिवेशितं च सुगोघृतेनाश्रुतिवर्तियुक्तम्।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
एकार्तिक्य दीपं दर्शयामि।।

महानैवेद्यम्

ॐ ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीद्बा॒हू रा᳚ज॒न्य॑: कृ॒तः।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: प॒द्भ्यां शू॒द्रो अ॑जायत।।

नानाभक्षैश्च भोज्यैश्च रसैः षड्भिस्समन्वितम्।
नैवेद्यं गृह्यतां देव प्रसीद माणिकेश्वर।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
महानैवेद्यं समर्पयामि।।

ॐ भूर्भुव॒: स्व॑:।
ॐ तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो᳚ दे॒वस्य॑ धीमहि।
धियो॒ यो न॑: प्रचो॒दया᳚त्।।

स॒त्यं त्व॒र्तेन॒ परि॑षिञ्चा॒मि (इति प्रातः)।
ऋ॒तं त्वा॑ स॒त्येन॑ परि॑षिञ्चा॒मि (इति सायम्)।

अ॒मृ॒तो॒प॒स्तर॑णमसि स्वा॒हा।

ॐ श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि।
शि॒वो मा॑ वि॒शाप्र॑दाहाय।
प्रा॒णाय॒ स्वाहा᳚।

ॐ श्र॒द्धाया॑मपा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि।
शि॒वो मा॑ वि॒शाप्र॑दाहाय।
अ॒पा॒नाय॒ स्वाहा᳚।

ॐ श्र॒द्धायां᳚ व्या॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि।
शि॒वो मा॑ वि॒शाप्र॑दाहाय।
व्या॒नाय॒ स्वाहा᳚।

ॐ श्र॒द्धाया॑मुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि।
शि॒वो मा॑ वि॒शाप्र॑दाहाय।
उ॒दा॒नाय॒ स्वाहा᳚।

श्र॒द्धायाꣳ॑ समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि।
शि॒वो मा॑ वि॒शाप्र॑दाहाय।
स॒मा॒नाय॒ स्वाहा᳚।

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑।।

ॐ ये दे᳚वासो दि॒व्येका᳚दश॒ स्थ पृ॑थि॒व्यामध्येका᳚दश॒ स्थ।
अ॒प्सु॒क्षितो᳚ महि॒नैका᳚दश॒ स्थ ते दे᳚वासो य॒ज्ञमि॒मं जु॑षध्वम्।।

नैवेद्यमध्ये पानीयं समर्पयामि।
उत्तरापोशनं समर्पयामि।
हस्तप्रक्षालनं समर्पयामि।
मुखप्रक्षालनं समर्पयामि।
करोद्वर्तनार्थे चन्दनं समर्पयामि।

ताम्बूलसमर्पणम्

ॐ च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षो॒: सूर्यो᳚ अजायत।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत।।

एलालवङ्गकर्पूरपूगीफलसमायुतम्।
नागवल्लीदलैर्युक्तं ताम्बूलं स्वीकुरु प्रभो।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
पूगीफलताम्बूलं समर्पयामि।।

फलसमर्पणम्

ॐ याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणी᳚:।
बृह॒स्पति॑प्रसूता॒स्ता नो᳚ मुञ्च॒न्त्वंह॑सः।।

इदं फलं मया देव स्थापितं पुरतस्तव।
तेन मे सुफलावाप्तिर्भवेज्जन्मनि जन्मनि।।

फलेन फलितं सर्वं त्रैलोक्यं सचराचरम्।
तस्मात्फलप्रदानेन सफलाश्च मनोरथाः।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
फलानि समर्पयामि।।

हिरण्यसमर्पणम्‌

ॐ नाभ्या᳚ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा॒त्तथा᳚ लो॒काँ अ॑कल्पयन्।।

हिरण्यगर्भगर्भस्थं कार्तस्वरविनिर्मितम्।
कुसुमानां च यद्दिव्यं मणीन्द्र प्रतिगृह्यताम्।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
सुवर्णपुष्पदक्षिणां समर्पयामि।।

मङ्गलनीराजनम्

ॐ स॒प्तास्या᳚सन्परि॒धय॒स्त्रिः स॒प्त स॒मिध॑: कृ॒ताः।
दे॒वा यद्य॒ज्ञं त᳚न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम्।।

महान्धकारसंमग्रं मां समुद्धर तेजसा।
त्रैलोक्यामुज्वलं दीप्यमार्तिक्यं प्रतिगृह्यताम्।।

ॐ श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो᳚ जरि॒तृभ्यो᳚ दधाति।
श्रियं॒ वसा᳚ना अमृत॒त्वमा᳚य॒न्भव᳚न्ति स॒त्या स॑मि॒था मि॒तद्रौ᳚।।

श्रिय एवैनं तच्छ्रियामादधाति सन्ततमृचा वषट्कृत्यं
सन्तत्यै सन्धीयते प्रजया पशुभिर्य एवं वेद।
अस्तुश्रीर्मङ्गलानि भवन्तु।
भवन्तु मङ्गलानि।।

मन्त्रपुष्पाञ्जलिः

ॐ य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन्।
ते ह॒ नाकं᳚ महि॒मान॑: सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति॑ दे॒वाः।।

ॐ रा॒जा॒धिरा॒जाय॑ प्रसह्य सा॒हिने᳚।
नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे।
स मे॒ कामा॒न्काम॒कामा॑य॒ मह्य᳚म्।
का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु।
कु॒बे॒राय॑ वैश्रव॒णाय॑।
म॒हा॒रा॒जाय॒ नम॑:।
ॐ स्वस्ति।।

साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं
माहाराज्यमाधिपत्यमयं समन्तपर्यायीस्यात्सार्वभौम:
सार्वायुष आन्तादापरार्धात्पृथिव्यै
समुद्रपर्यन्ताया एकराळिति।
तदप्येष श्लोकोभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति।

आरामकुसुमैर्युक्तमक्षतैश्च समन्वितम्।
मन्त्रपुष्पाञ्जलिं देव गृह्यतां मणिदेशिक।।
श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
मन्त्रपुष्पाञ्जलिं समर्पयामि।।

नमस्काराः

ॐ द॒त्ता॒त्रे॒याय॑ वि॒द्महे॑ योगि॒राजाय॑ धीमहि।
तन्नो॑ माणिकः प्रचो॒दया᳚त्।।

श्रीसद्गुरु माणिक्यप्रभु महाराजाय नमः।
नमस्कारान् समर्पयामि।।

राजोपचाराः

पुनः पूजां करिष्ये।
छत्रमाच्छादयामि।
चामराभ्यां वीजयामि।
गीतं श्रावयिष्यामि।
नृत्यं नर्तयिष्यामि।
आन्दोलिकामारोपयामि।
गजारोहणाश्वारोहणादि समस्त राजोपचारान्परिकल्पयामि।।

पूजानिवेदनम्

यस्य स्मृत्या च नामोक्त्या तप:पूजाक्रियादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम्।।

मन्त्रहीनं क्रियाहीनं भक्तिहीनं महागुरो।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते।।

अनेन मया कृतमहान्यासलघुन्यासपूर्वकं एभिर्ब्राह्मणैः सह रुद्राभिषेकेण सह सहस्रबिल्वार्चनेन सह (अष्टोत्तरशतबिल्वार्चनेन सह) श्रीमनोहरमुनिवर्यविरचितपुरुषसूक्तविधानपूर्वक ध्यानावाहनादि षोडशोपचार महापूजनेन भगवान् सर्वात्मकः पार्वतीपरमेश्वरस्वरूपिसद्गुरुश्रीमाणिक्यप्रभुमहाराजः प्रीयताम्।
प्रीतो वरदो भवतु।
ॐ तत् सत् ब्रह्मार्पणमस्तु।।

प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुस्साक्षात्परम्ब्रह्म तस्मै श्रीगुरवे नमः।।

श्रीभक्तकार्यकल्पद्रुम गुरुसार्वभौम श्रीमद्राजाधिराज योगिमहाराज त्रिभुवनानन्द अद्वैत अभेद निरञ्जन निर्गुण निरालम्ब परिपूर्ण सदोदित सकलमतस्थापित श्री सद्गुरु माणिकप्रभु महाराज की जय।।

सर्वे जनाः सुखिनो भवन्तु।।

अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः।
अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः।।

अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग॑मत्।
इ॒दं तव॑ प्र॒सर्प॑णं॒ सुब᳚न्ध॒वेहि॒ निरि॑हि।।

नम: पार्वतीपतये हर हर महादेव।।

तीर्थप्रसादग्रहणम्

ॐ श्रा॒वयेद॑स्य॒ कर्णा᳚ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्रदिशं᳚ मन्द॒यध्यै᳚।
उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न्कर᳚न्न॒ इन्द्र॑: सुती॒र्थाभ॑यं च।

अज्ञानमूलहरणं जन्मकर्मनिवारणम्।
ज्ञानवैराग्य सिद्ध्यर्थं गुरुपादोदकं पिबेत्।।

अज्ञानाचे मूळ निर्मूळकारी।
सेवू जाता जन्मकर्मा निवारी।
वैराग्यासह ज्ञान लाधे स्वभावे।
या लागी सद्गुरू चरणतीर्थ घ्यावे।।

श्री सद्गुरु माणिकप्रभु महाराज की जय।।

महामंत्र

श्री भक्तकार्यकल्पद्रुम गुरुसार्वभौम श्रीमद्राजाधिराज योगिमहाराज त्रिभुवनानंद अद्वैत अभेद निरंजन निर्गुण निरालंब परिपूर्ण सदोदित सकलमतसस्थापित श्री सद्गुरु माणिकप्रभु महाराज की जय!

 

CONTACT US

Shri Manik Prabhu Samsthan,
Maniknagar,
Dist. Bidar,
Karnataka - 585353  (India)

E-mail: maniknagar@gmail.com 

Admin:  9448469913, 9448128389
Office: 9535119497,  9036656829
Seva Booking: 9008894889
Accommodation: 9902453075, 9731089499