Select Page

त्रिसुपर्णम्‌

ब्रह्म॑मेतु॒ माम् ।
मधु॑मेतु॒ माम् ।
ब्रह्म॑मे॒व मधु॑मेतु॒ माम् ।
यास्ते सो॑म प्र॒जा व॒त्सोऽभि॒ सो अ॒हम् ।
दुःष्वप्न॒हन् दु॑रुष्षह ।
यास्ते॑ सोम प्रा॒णाꣳस्ताञ्जु॑होमि ॥ १॥
त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
ब्र॒ह्म॒ह॒त्यां वा ए॒ते घ्न॑न्ति ।
ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात् प॒ङ्क्तिं पुन॑न्ति ।।

ब्रह्म॑ मे॒धया᳚ ।
मधु॑ मे॒धया᳚ ।
ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ ।।
अ॒द्यानो॑ देव सवितः प्र॒जाव॑त्सावीः॒ सौभ॑गम् ।
परा᳚ दुःष्वप्नि॑यꣳ सुव ।।
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव ।
यद्भ॒द्रं तन्म॒ आसु॑व ।।
मधु॒वाता॑ ऋताय॒ते मधु॒क्षरन्ति सिन्ध॑वः ।
माध्वी᳚र्नः स॒न्त्वोष॑धीः ।।
मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑वꣳ रजः॑ ।
मधु॒द्यौर॑स्तु नः पि॒ता ।।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ।।
य इ॒मं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
भ्रूण॒ह॒त्यां वा ए॒ते घ्न॑न्ति ।
ये ब्रा᳚ह्मणास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रा॒त्प॒ङ्क्तिं पुन॑न्ति ।।

ब्रह्म॑ मे॒धवा᳚ । मधु॑ मे॒धवा᳚ ।
ब्रह्म॑मे॒व मधु॑ मे॒धवा᳚ ।।
ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां
महि॒षो मृ॒गाणा᳚म् ।
श्ये॒नो गृद्ध्रा॑णाꣳ स्वधि॑ति॒र्वना᳚ना॒ꣳ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभन्॑ ।।
ह॒ꣳसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑तसद्व्यो॑म॒सद॒ब्जा गो॒जा
ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ।।
ऋ॒चे त्वा॑ ऋ॒चे त्वा॒ समित्स्र॑वन्ति स॒रितो॒ न धेनाः᳚ ।
अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।
घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि ।।
हि॒र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ।
तस्मि᳚न्त्सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒
मधु॑ दे॒वता᳚भ्यः ।
तस्या॑सते॒ ह॑रयः स॒प्त तीरे स्व॒धां
दुहा॑ना अ॒मृत॑स्य॒ धारा᳚म् ।।
य इ॒दं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
वी॒र॒ह॒त्यां वा ए॒ते घ्नन्ति ।
ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒हस्रात् प॒ङ्क्तिं पुन॑न्ति ।।

मे॒धादे॒वी जु॒षमाणा न॒ आगा᳚द्वि॒श्वाची॑
भ॒द्रा सु॑मन॒स्यमा॒॑ना ।
त्वया॒ जुष्टा॑ जु॒षमा॑णा दुरुक्ता᳚न्बृ॒हद्व॑देम
वि॒दथे॑ सु॒वीराः᳚ ।।
त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति॒ देवि॒
त्वया॒ ब्रह्मा॑ग॒तश्री॑रु॒त त्वया᳚ ।
त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते॒ वसु॒ सा
नो॑ जुषस्व॒ द्रवि॑णेन मेधे ।।
मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती ।
मे॒धां मे॑ अ॒श्विना॑वु॒भावाध॑त्तां॒ पुष्क॑रस्रजौ ।।
अ॒प्स॒रासु॑ च॒ या॒ मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मनः॑ ।
दैवी᳚ मे॒धा सर॑स्वती॒ स मां᳚ मे॒धा
सु॒रभि॑र्जुषता॒ꣳ स्वाहा᳚ ।।
आ मां᳚ मे॒धा सुरभि॑र्वि॒श्वरू॑पा॒
हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒
सा मां᳚ मे॒धा सु॒प्रती॑का जुषताम् ।।
मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ ।
मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु ।
मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ।।

तस्यै॒वं विदु॒षो॑ य॒ज्ञस्या॒त्मा यज॑मानः श्र॒द्धा पत्नी॒
शरी॑रमि॒ध्ममुरो॒ वेदि॒र्लोमा॑नि ब॒र्हिर्वे॒दः॒ शिखा॒ हृद॑यं॒ यूपः॒
काम॒ आज्यं॑ म॒न्युः प॒शुस्तपो॒ऽग्निर्दमः॑ शमयि॒ता दानं
दक्षि॑णा॒ वाग्घोता᳚ प्रा॒ण उ॑द्गा॒ता चक्षु॑रध्व॒र्युर्मनो॒ ब्रह्मा॒
श्रोत्र॑म॒ग्नीत् याव॒द्ध्रिय॑ते सा दी॒क्षा यदश्ना॑ति॒
तद्धवि॒र्यत्पिब॑ति॒ तद॑स्य सोमपा॒नं यद्रम॑ते॒ तदु॑प॒सदो॒
यत्स॒ञ्चर॑त्युप॒विश॑त्यु॒त्तिष्ठ॑ते च॒ स प्र॑व॒र्ग्यो॑ यन्मुखं॒
तदा॑हव॒नीयो॒ या व्याहृ॑तिराहु॒तिर्यद॑स्य वि॒ज्ञानं॒ तज्जु॒होति॒
यत्सा॒यं प्रा॒तर॑त्ति॒ तत्स॒मिधं॒ यत्प्रा॒तर्म॒ध्यन्दि॑नꣳ सा॒यं
च॒ तानि॒ सव॑नानि॒ ये अ॑होरा॒त्रे ते द॑र्शपूर्णमा॒सौ
ये᳚ऽर्धमा॒साश्च॒ मासा᳚श्च॒ ते चा॑तुर्मा॒स्यानि॒ य ऋ॒तव॒स्ते
प॑शुब॒न्धा ये सं॑वत्स॒राश्च॒ परिवत्स॒राश्च॒ तेऽह॑र्ग॒णाः
स॑र्ववेद॒सं वा ए॒तत्स॒त्रं यन्मर॑णं॒ तद॑व॒भृथ॑ ए॒तद्वै
ज॑रामर्यमग्निहो॒त्रꣳस॒त्रं य ए॒वं वि॒द्वानु॑द॒गय॑ने प्र॒मीय॑ते
दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वादि॒त्यस्य॒
सायु॑ज्यं गच्छ॒त्यथ॒ यो द॑क्षि॒णे प्र॒मीय॑ते पितृ॒णामे॒व म॑हि॒मानं॑ ग॒त्वा च॒न्द्रम॑सः॒ सायु॑ज्यं गच्छत्ये॒तौ वै सू᳚र्याचन्द्र॒मसो॑र्महि॒मानौ᳚ ब्राह्म॒णो वि॒द्वान॒भिज॑यति॒ तस्मा᳚द् ब्र॒ह्मणो॑ महि॒मान॑मित्युप॒निष॑त् ।।