श्रीव्यंकमाम्बा महापूजा
मंगलाचरणं विधाय आचम्य प्राणानायम्य देशकालौसङ्कीर्त्य
संकल्प:
अस्माकं सहकुटुम्बानां क्षेमस्थैर्य आयुरारोग्य ऐश्वर्याभिवृध्द्यर्थं समस्तमङ्गलावाप्त्यर्थं समस्तदुरितोपशान्त्यर्थं च आयुष्काम्यार्थफल सिध्द्यर्थं मम इह जन्मनि जन्मान्तरेषु च श्रीमहाकाली महालक्ष्मी महासरस्वतीस्वरूपिणी मधुमतीश्यामलाम्बा देवता प्रीतिद्वारा सर्वापच्छान्तिपूर्वक दीर्घायुः विपुलधन पुत्रपौत्राद्यविच्छिन्न सन्ततिवृध्दि स्थिरलक्ष्मी कीर्तिलाभ शत्रुपराजय सदाभीष्टसिध्द्यर्थं श्रीमहाकाली महालक्ष्मी महासरस्वतीस्वरूपिणी मधुमतीश्यामलाम्बा देवतामुद्दिश्य श्रीमहाकाली महालक्ष्मी महासरस्वतीस्वरूपिणी मधुमतीश्यामलाम्बा देवताप्रीत्यर्थं पञ्चदशावर्तनश्रीसूक्ताभिषेकेण सह देव्यथर्वशीर्षाभिषेकेण सह सहस्रकुंकुमार्चनेन सह लक्ष्मीसूक्तविधानपूर्वक ध्यानावाहनादि शोडषोपचारमहापूजनं च करिष्ये।।
तत्रादौ निविर्घ्नतासिद्ध्यर्थं महागणपतिस्मरणं कलशादि पूजनं च कृत्वा
खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिर:
शंखं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम्॥
ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनु:कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्।
शूलं पाशसुदर्शने च दधतीं हस्तै: प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्॥
ॐ घण्टाशूलहलानि शंखमुसले चक्रं धनु: सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्॥
ध्यानम्
सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे।
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम्।।
आवाहनम्
ॐ हिर᳚ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जा॒तवे᳚दो म॒ आव॑ह।।१।।
पीताम्बरधरां दिव्यां पञ्चक्षोभविवर्जिताम्।
नानावरप्रदां दिव्यां समाराधन सुव्रताम्।।
श्रीमधुमती श्यामलाम्बायै नमः।
आवाहयामि।।
आसनम्
ॐ तां म॒ आव॑ह जातवेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म्।
यस्यां॒ हिर᳚ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम्।।२।।
तप्तकाञ्चनसङ्काशां कमलां कमलालयाम्।
रत्नसिंहासनस्थां च तां वन्दे परमेश्वरीम्।।
श्रीमधुमती श्यामलाम्बायै नमः।
आसनं समर्पयामि।।
पाद्यम्
ॐ अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना᳚दप्र॒बोधि॑नीम्।
श्रियं᳚ दे॒वीमुप॑ह्वये॒ श्रीर्मा᳚दे॒वीजु॑षताम्।।३।।
विद्याधरि महामाये शङ्करार्धशरीरिणि।
जगन्मातर्महालक्ष्मि त्वां वन्दे पूजयाम्यहम्।।
श्रीमधुमती श्यामलाम्बायै नमः।
पादयोः पाद्यं समर्पयामि।।
अर्घ्यम्
ॐ कां॒सो॒स्मि॒तां हिर᳚ण्यप्रा॒कारा᳚मा॒र्द्रां ज्वल᳚न्तीं तृ॒प्तां त॒र्पय᳚न्तीम्।
प॒द्मे॒स्थि॒तां प॒द्मव᳚र्णां॒ तामि॒होप॑ह्वये॒ श्रिय᳚म्।।४।।
चतुर्भुजां त्रिनेत्रां च वरदाभयपाणिनीम्।
हंसारूढां महादेवीं सर्वैश्वर्यप्रदायिनीम्।।
श्रीमधुमती श्यामलाम्बायै नमः।
हस्तयो: अर्घ्यं समर्पयामि।।
आचमनीयम्
ॐ च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल᳚न्तीं॒ श्रियं᳚ लो॒के दे॒वजु॑ष्टामुदा॒राम्।
तां प॒द्मिनी᳚मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे᳚ नश्यतां॒ त्वां वृ॑णे।।५।।
विद्याधरीं महादेवीं पद्माक्षीं लोकमातरम्।
सर्वैश्वर्यप्रदां देवीमाचम्याभिः प्रपूजयेत्।।
श्रीमधुमती श्यामलाम्बायै नमः।
मुखे आचमनीयं समर्पयामि।।
मधुपर्कम्
निहितः कनकस्य सम्पुटे पिहितो रत्नपिधानकेन सः।
तदयं भवतीकरेऽर्पितो मधुपर्को जननि प्रगृह्यताम्।।
श्रीमधुमती श्यामलाम्बायै नमः।
मधुपर्कं समर्पयामि।।
पञ्चामृतम्रानम्
पञ्चामृतमिदं मातः पयोदधिघृतंमधु।
शर्करासितसंयुक्तं स्नानार्थं प्रतिगृह्यताम्।।
दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः।
स्नपयामि तवाहमादृतो जननि त्वां पुनरुष्णवारिभिः।।
श्रीमधुमती श्यामलाम्बायै नमः।
पञ्चामृतस्नानं समर्पयामि।।
तैलाभ्यङ्गनानम्
ॐ आ॒दि॒त्यव᳚र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः।
तस्य॒ फला᳚नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः।।६।।
देवेन्द्रादिभिरर्चितं सुरगणैराधाय सिंहासनम्।
चञ्चत्काञ्चनसञ्चयाभिरचितं चारुप्रभाभासुरम्।
एतच्चम्पककेतकीपरिमलं तैलं महानिर्मलम्।
गन्धोद्वर्तनमादिदेवि तरुणी दत्तं गृहाणाम्बिके।
एतच्चम्पकतैलमेव विविधै: पुष्पैर्मुहुर्वासितम्।
न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम्।
सानन्दं सुरसुन्दरीभिरभितो हस्ते धृतं यन्मया।
केशेषु भ्रमरप्रभेषु सकलेष्वङ्गेषु चालिप्यताम्।।
श्रीमधुमती श्यामलाम्बायै नमः।
तैलाभ्यङ्गस्नानं समर्पयामि।।
गन्धोद्वर्तनम्
मात: कुङ्कमपङ्कनिर्मितमिदं देहे तवोद्वर्तनम्।
भक्त्याऽहङ्कलयामि हेमरजसा सम्मिश्रितं केशरम्।
केशानामलकैर्विशोध्य विशदान्कस्तूरिकाद्यन्वितम्
स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः।।
श्रीमधुमती श्यामलाम्बायै नमः।
गन्धोद्वर्तनं समर्पयामि।।
शुद्धोदकसानम्
एलोशीरसुवासितैः सुकुसमैर्गङ्गादितीर्थोदकैः ।
माणिक्यामलमौक्तिकामृतयुतैः स्वच्छैः सुवर्णोदकैः।
मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरात्।
स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु।।
श्रीमधुमती श्यामलाम्बायै नमः।
शुद्धोदकस्नानं समर्पयामि।।
पूर्वाङ्गपूजनम्
इच्छाशक्त्यै नमः। स्नानं समर्पयामि।।
क्रियाशक्त्यै नमः। गन्धान्धारयामि।।
ज्ञानशक्त्यै नमः। पुष्पं समर्पयामि।।
श्रीमधुमती श्यामलाम्बायै नमः। हरिद्राकुमद्रव्याणि समर्पयामि।।
शान्त्यै नमः। धूपं समर्पयामि।।
पुष्ट्यै नमः। दीपं दर्शयामि।।
तुष्ट्यै नमः। नैवेद्यं समर्पयामि।।
श्रीमधुमती श्यामलाम्बायै नमः। पूगीफलताम्बूलं समर्पयामि।।
महालक्ष्म्यै नमः। सुवर्णपुष्प दक्षिणां समर्पयामि।।
प्रीत्यै नमः। माङ्गल्यनीराजनदीपं दर्शयामि।।
हृत्यै नमः। मन्त्रपुष्पाञ्जलिं समर्पयामि।।
श्रीमधुमती श्यामलाम्बायै नमः। नमस्करोमि।।
अनेन पूर्वाङ्गपूजनेन श्रीमधुमती श्यामलाम्बा प्रीयताम्।।
श्रीसूक्ताभिषेकम्
हिरण्यवर्णामिति पञ्चदशर्चस्य सूक्तस्य
आनन्दकर्दमचिक्लीतेन्दिरासुता ऋषयः।
श्रीर्देवता। आद्यास्तिस्रोऽनुष्टभः। चतुर्थी प्रस्तारपंक्ति:।
पञ्चमीषष्ठ्यौ त्रिष्टुभौ। ततोऽष्टावनुष्टभः। अन्त्याप्रस्तारपंक्ति:।
ह्रीं बीजम्। सौः शक्तिः। क्लीं कीलकम्।
अभिषेके विनियोगः।।
ॐ हिर᳚ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जा॒तवे᳚दो म॒ आव॑ह।।१।।
ॐ तां म॒ आव॑ह जातवेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म्।
यस्यां॒ हिर᳚ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम्।।२।।
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना᳚दप्र॒बोधि॑नीम्।
श्रियं᳚ दे॒वीमुप॑ह्वये॒ श्रीर्मा᳚दे॒वीर्जु॑षताम्।।३।।
ॐ कां॒सो॒स्मि॒तां हिर᳚ण्यप्रा॒कारा᳚मा॒र्द्रां ज्वल᳚न्तीं तृ॒प्तां त॒र्पय᳚न्तीम्।
प॒द्मे॒स्थि॒तां प॒द्मव᳚र्णां॒ तामि॒होप॑ह्वये॒ श्रिय᳚म्।।४।।
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल᳚न्तीं॒ श्रियं᳚ लो॒के दे॒वजु॑ष्टामुदा॒राम्।
तां प॒द्मिनी᳚मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे᳚ नश्यतां॒ त्वां वृ॑णे।।५।।
आ॒दि॒त्यव᳚र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः।
तस्य॒ फला᳚नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः।।६।।
उपै᳚तु॒ मां दे᳚वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे।।७।।
ॐ क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठामल॒क्ष्मीं ना᳚शया॒म्यह᳚म्।
अभू᳚ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा᳚त्।।८।।
ॐ गं॒ध॒द्वा॒रां दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी᳚म्।
ई॒श्वरीं᳚ सर्व॑भूता॒नां तामि॒होप॑ह्वये॒ श्रिय᳚म्।।९।।
ॐ मन॑स॒: काम॒माकू᳚तिं वा॒चः स॒त्यम॑शीमहि।
प॒शू॒नां रूप॑मन्न॒स्य मयि॒ श्रीः श्र॑यतां॒ यश॑:।।१०।।
ॐ कर्द॑मे॒न प्र॑जाभू॒ता म॒यि स᳚म्भव॒ कर्द॑म।
श्रियं᳚ वा॒सय॑ मे कु॒ले मा॒तरं᳚ पद्म॒मालि॑नीम्।।११।।
ॐ आप॒: सृज᳚न्तु स्निग्धा᳚नि॒ चिक्ली᳚त॒ वस॑ मे गृ॒हे।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं᳚ वा॒सय॑ मे कु॒ले।।१२।।
ॐ आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं पि॒ङ्गलां᳚ पद्म॒मालि॑नीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जा॒तवे᳚दो म॒ आव॑ह।।१३।।
ॐ आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं सु॒वर्णां᳚ हेम॒मालि॑नीम्।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जा॒तवे᳚दो म॒ आव॑ह।।१४।।
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म्।
यस्यां॒ हि॑रण्यं॒ प्रभू᳚तं॒ गावो᳚ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम्।।१५।।
यः शुचिः॒ प्रय॑तो भू॒त्वा जु॒हुया᳚दाज्य॒ मन्व॑हम्।
श्रिय॑: प॒ञ्चद॑शर्चं॒ च श्री॒काम॑: सत॒तं ज॑पेत्।।१६।।
प॒द्मा॒न॒ने प॑द्म ऊ॒रू॒ प॒द्माक्षी॑ पद्म॒सम्भ॑वे।
त्वं मां᳚ भ॒जस्व॑ प॒द्मा॒क्षी॒ ये॒न सौ᳚ख्यं ल॒भाम्य॑हम्।।
अश्व॑दा॒यी गो॑दा॒यी॒ ध॒नदा᳚यी म॒हाध॑ने।
धनं मे॒ जुष॑तां दे॒वि॒ स॒र्वका᳚मांश्च॒ देहि॑ मे।।
पुत्रपौ॒त्र ध॑नं धा॒न्यं ह॒स्त्यश्वा᳚दिग॒वे र॑थम्।
प्र॒जा॒नां भ॑वसि मा॒ता आ॒युष्म᳚न्तं क॒रोतु॑ माम्।।
धन॑म॒ग्निर्ध॑नं वा॒युर्ध॑नं॒ सूर्यो॑ धनं॒ वसुः॑।
धन॒मिन्द्रो॒ बृह॒स्पति॒र्वरु॑णं॒ धन॒मश्नु॑ ते।।
वैन॑तेय॒ सोमं᳚ पिब॒ सोमं᳚ पिबतु वृत्र॒हा।
सोमं॒ धन॑स्य सो॒मिनो॒ मह्यं॒ ददा᳚तु सो॒मिनः॑।।
न क्रोधो न च॑ मात्स॒र्यं न॒ लोभो᳚ नाशु॒भा म॑तिः।
भव॑न्ति॒ कृत॑पुण्या॒नां भ॒क्तानां श्रीसू᳚क्तं ज॒पेत्स॑दा।।
चन्द्रभां लक्ष्मीमीशानाम् सुर्यभां श्रियमीश्वरीम्।
चन्द्र सूर्यग्नि सर्वाभाम् श्रीमहालक्ष्मीमुपास्महे।।
वर्ष᳚न्तु॒ ते वि॑भाव॒रि॒ दि॒वो अ॑भ्रस्य॒ विद्यु॑तः।
रोह᳚न्तु॒ सर्व॑बी॒जा॒न्य॒व ब्रह्म॒ द्विषो᳚ ज॑हि।।
पद्म॑प्रिये पद्मिनि पद्म॒हस्ते पद्मा॑लये पद्मदलाय॑ताक्षि।
विश्व॑प्रिये॒ विष्णु मनो॑ऽनुकू॒ले त्वत्पा॑दप॒द्मं मयि॒ सन्नि॑धत्स्व।।
या सा पद्मा॑सन॒स्था विपुलकटितटी पद्म॒पत्रा॑यता॒क्षी।
गम्भीरा व॑र्तना॒भिः स्तनभर नमिता शुभ्र वस्त्रो॑त्तरी॒या।
लक्ष्मीर्दि॒व्यैर्गजेन्द्रैर्म॒णिगण खचितैस्स्नापिता हे॑मकु॒म्भैः।
नि॒त्यं सा प॑द्मह॒स्ता मम वस॑तु गृ॒हे सर्व॒माङ्गल्य॑युक्ता।।
सि॒द्ध॒ल॒क्ष्मीर्मो॑क्षल॒क्ष्मी॒र्ज॒यल॑क्ष्मीस्स॒रस्व॑ती।
श्रीलक्ष्मीर्व॑रल॒क्ष्मी॒श्च॒ प्र॒सन्ना म॑म स॒र्वदा।।
वरांकुशौ पाशमभी॑तिमु॒द्रां॒ क॒रैर्वहन्तीं क॑मला॒सनस्थाम्।
बालार्क कोटि प्रति॑भां त्रि॒नेत्रां॒ भ॒जेहमाद्यां ज॑गदी॒श्वरीं ताम्।।
नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्।।
सर्वमङ्गलमा॒ङ्गल्ये शि॒वे स॒र्वार्थ साधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते।।
सरसिजनिलये सरो᳚जह॒स्ते धवलतरांशुक गन्धमा᳚ल्यशो॒भे।
भगवति हरिवल्लभे॑ मनो॒ज्ञे त्रिभुवनभूतिकरिप्र॑सीद म॒ह्यम्।।
विष्णु॑प॒त्नीं क्ष॑मां दे॒वीं॒ मा॒धवीं᳚ माध॒वप्रि॑याम्।
विष्णो᳚: प्रि॒यस॑खींम् दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम्।।
म॒हा॒ल॒क्ष्मी च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमही।
तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त्।।
आन᳚न्द॒: कर्द॑मः श्रीदश्चि॒क्लीत॑ इति॒ विश्रु॑ताः।
ऋष॑य॒: श्रिय॑: पुत्रा॒श्च श्री॒र्देवी᳚र्देवता॒ म॑ताः।।
ऋणरोगादिदारिद्र्यपा॒पक्षु॑द॒पमृत्य॑वः।
भय॑शो॒कम॑नस्ता॒पा न॒श्यन्तु॑ मम॒ सर्व॑दा।।
श्री॒वर्च॑स्य॒मायु॑ष्य॒मारो᳚ग्य॒मावि॑धा॒च्छोभ॑मानं मही॒यते᳚।
ध॒नं धा॒न्यं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं᳚वत्स॒रं दी॒र्घमायु॑:।।
सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त।
अत्रा॒ सखा᳚यः स॒ख्यानि॑ जानते भ॒द्रैषां᳚ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि।।
प्र णो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती।
धी॒नाम॑वि॒त्र्य॑वतु।।
गौ॒रीर्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ स॒हस्रा᳚क्षरा पर॒मे व्यो᳚मन्।।
उत्तराङ्गपूजनम्
इच्छाशक्त्यै नमः। स्नानं समर्पयामि।।
क्रियाशक्त्यै नमः। गन्धान्धारयामि।।
ज्ञानशक्त्यै नमः। पुष्पं समर्पयामि।।
श्रीमधुमती श्यामलाम्बायै नमः। हरिद्राकुमद्रव्याणि समर्पयामि।।
शान्त्यै नमः। धूपं समर्पयामि।।
पुष्ट्यै नमः। दीपं दर्शयामि।।
तुष्ट्यै नमः। नैवेद्यं समर्पयामि।।
श्रीमधुमती श्यामलाम्बायै नमः। पूगीफलताम्बूलं समर्पयामि।।
महालक्ष्म्यै नमः। सुवर्णपुष्प दक्षिणां समर्पयामि।।
प्रीत्यै नमः। माङ्गल्यनीराजनदीपं दर्शयामि।।
हृत्यै नमः। मन्त्रपुष्पाञ्जलिं समर्पयामि।।
श्रीमधुमती श्यामलाम्बायै नमः। नमस्करोमि।।
अनेन पूर्वाङ्गपूजनेन श्रीमधुमती श्यामलाम्बा प्रीयताम्।।
अनेन पञ्चदशावर्तनश्रीसूक्ताभिषेकेण श्रीमधुमती श्यामलाम्बा प्रीयताम्।।
वस्त्रार्पणम्
ॐ उपै᳚तु॒ मां दे᳚वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे।।७।।
गन्धर्वासुरकिन्नरैः सुरगणैः सन्तानहस्ताम्बुजैः।
सुस्मेरुप्रियमाणमुत्तमतरैः काश्मीरजैः पिञ्जरैः।
प्रातर्भासुरभानुमण्डलनिभं कान्तिप्रदानोज्ज्वलम्
चेलं निर्मलमातनोतु वरदे श्रीसुन्दरी त्वं मुदे।।
श्रीमधुमती श्यामलाम्बायै नमः।
वस्त्रयुग्मं समर्पयामि।।
बालार्कद्युतिदाडिमीयकुसुमप्रस्पर्धिसर्वोत्तमम्।
मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम्।।
मुक्ताभिर्ग्रथितं सकञ्चुकमिदं स्वीकृत्य पीतप्रभम्।
तप्तस्वर्णसमानवर्णबहुलं प्रावर्णमङ्गीकुरु।।
यस्मात्कार्पाससूत्राणि वासांसि विविधानि च।
पीतवस्त्रधरे देवि गृह्यतां रत्नकञ्चुकीम्।।
श्रीमधुमती श्यामलाम्बायै नमः।
कञ्चुकीमुपवस्त्रं समर्पयामि।।
केशधूप समर्पणम्
बहुभिरगुरुधूपैः सादरं धूपयित्वा।
भगवति तव केशान् कङ्कतैर्माजयित्वा।
सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा।
झटिति कनकसूत्रैर्जूटमावेष्टयामि।।
श्रीमधुमती श्यामलाम्बायै नमः।
केशधूपं समर्पयामि।।
कज्जल समर्पणम्
सौवीराञ्जनमिदमम्ब चक्षुषोस्ते
विन्यस्तं कनकशलाकया मया यत्।
तन्नूनं मलिनमपि त्वदक्षिसङ्गात्
ब्रह्मेन्द्राद्यभिलषणीयतामियाय।।
श्रीमधमती श्यामलाम्बायै नमः।
कज्जलं समर्पयामि।।
सिन्दूर समर्पणम्
सीमन्ते ते भगवति मया सादरं न्यस्तमेतत्।
सिन्दूरं ते हृदयकमले देवि हर्षं तनोतु।
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्तिः।
अन्तर्ध्वान्तं हरतु सकलं चेतसा चिन्तयामि।।
श्रीमधमती श्यामलाम्बायै नमः।
सिन्दूरं समर्पयामि।।
कण्ठसूत्रादि आभरणसमर्पणम्
ॐ क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठामल॒क्ष्मीं ना᳚शया॒म्यह᳚म्।
अभू᳚ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा᳚त्।।८।।
नानासिद्धिप्रदां देवीं नानागुणविवर्धिनीम्।
नानासूत्रधरां देवीं नानालोकमहेश्वरीम्।।
श्रीमधुमती श्यामलाम्बायै नमः।
कण्ठसूत्रं समर्पयामि।।
सूत्रधारं जगत्सर्वं त्रैलोक्यं सचराचरम्।
तस्मात्सर्वं मया दत्तं चण्डिके प्रीतये तव।।
श्रीमधुमती श्यामलाम्बायै नमः।
यज्ञोपवीतं समर्पयामि।।
स्वर्णपात्रं पवित्रं च मणिरत्नेन राजितम्।
भक्त्या दत्तं मया देवि गृह्यतां शङ्करप्रिये।।
श्रीमधुमती श्यामलाम्बायै नमः।
माङ्गल्यकङ्कणानि समर्पयामि।।
मञ्जीरे पदयोर्निधाय रुचिरे विन्यस्य काञ्चीं कटौ।
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले।
केयूराणि भुजेषु रत्नवलयश्रेणी: करेषु क्रमात्।
ताटङ्के तव कर्णयोर्विनिदधे शीर्ष्णे च चूडामणिम्।।
धम्मिल्ले तव देवि हेमकुसुमान्याधाय भालस्थले।
मुक्ताराजिविराजिहेमतिलकं नासापुटे मौक्तिकम्।
मातर्मौक्तिकजालिकाञ्च कुचयोः सर्वाङ्गुलीषूर्मिकाः।
कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ।।
श्रीमधुमती श्यामलाम्बायै नमः।
आभरणानि समर्पयामि।।
गन्धादि अर्चनम्
ॐ गं॒ध॒द्वा॒रां दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी᳚म्।
ई॒श्वरीं᳚ सर्व॑भूता॒नां तामि॒होप॑ह्वये॒ श्रिय᳚म्।।९।।
मलयाचलसम्भूतं घनसारं मनोहरम्।
हृदयानन्दकारं च चन्दनं प्रतिगृह्यताम्।।
श्रीमधुमती श्यामलाम्बायै नमः।
गन्धान्धारयामि।।
मातर्भालतले तवातिविमले काश्मीरकस्तूरिका।
कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः।
वक्षोजादिषु यक्षकर्दमरसैः सिक्त्वा च पुष्पद्रवैः।
पादौ कुङ्कमलेपनादिभिरहं सम्पूजयामि क्रमात्।।
श्रीमधुमती श्यामलाम्बायै नमः।
पादौ कुङ्कमलेपनं समर्पयामि।।
रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः।
अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा।।
श्रीमधुमती श्यामलाम्बायै नमः।
अक्षतान्समर्पयामि।।
हरिद्रारञ्जिता देवी सौभाग्यसुखसम्पदा।
यस्मात्त्वां पूजयाम्यद्य अतः शान्तिं प्रयच्छ मे।।
श्रीमधुमती श्यामलाम्बायै नमः।
हरिद्रां समर्पयामि।।
कुंकुमं कामदं दिव्यं कामिनीकामसम्भवम्।
कुङ्कमेनार्चिते देवि चण्डिके प्रीतये तव।।
श्रीमधुमती श्यामलाम्बायै नमः।
कुङ्कमं समर्पयामि।।
पुष्पार्चनम्
ॐ मन॑स॒: काम॒माकू᳚तिं वा॒चः स॒त्यम॑शीमहि।
प॒शू॒नां रूप॑मन्न॒स्य मयि॒ श्रीः श्र॑यतां॒ यश॑:।।१०।।
मन्दारकुन्दकरवीरलवङ्गपुष्पैः।
त्वां देवि सन्ततमहं परिपूजयामि।
जातीजपाबकुलचम्पककेतकानि
नानाविधानि कुसुमानि च तेऽर्पयामि।।
श्रीमधुमती श्यामलाम्बायै नमः।
नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।।
धूप समर्पणम्
ॐ कर्द॑मे॒न प्र॑जाभू॒ता म॒यि स᳚म्भव॒ कर्द॑म।
श्रियं᳚ वा॒सय॑ मे कु॒ले मा॒तरं᳚ पद्म॒मालि॑नीम्।।११।।
दशाङ्गं गुग्गुलं धूपं चन्दनागरुमिश्रितम्।
सर्वेषामुत्तमं धूपं महालक्ष्मीं निवेदयेत्।।
लाक्षासम्मिलितै: शिलारसयुतै: श्रीवाससम्मिश्रितैः।
कर्पूराकलितैः सितामधुयुतैर्गोसर्पिषालोडितैः।
श्रीखण्डागरुगुग्गुलप्रभृतिभिर्नानाविधैर्वस्तुभिः।
धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु।।
श्रीमधुमती श्यामलाम्बायै नमः।
धूपमाघ्रापयामि।।
दीप समर्पणम्
ॐ आप॒: सृज᳚न्तु स्निग्धा᳚नि॒ चिक्ली᳚त॒ वस॑ मे गृ॒हे।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं᳚ वा॒सय॑ मे कु॒ले।।१२।।
घृतवर्तिसमायुक्तं महातेजोमहाबलम्।
अज्ञानान्धकारं च निवारयति भूतले।।
श्रीमधुमती श्यामलाम्बायै नमः।
एकार्तिक्यदीपं दर्शयामि।।
नैवेद्य समर्पणम्
ॐ आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं पि॒ङ्गलां᳚ पद्म॒मालि॑नीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जा॒तवे᳚दो म॒ आव॑ह।।१३।।
मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकैः।
सूपापूपसिताघृतैः सवटकैः सक्षुद्ररम्भाफलैः।
एलाजीरकहिङ्गुनागरनिशाकौस्तुम्बरीसंयुतैः।
शाकैः साकमहं सुधाधिकरसैः सन्तर्पयाम्यम्बिके।।
ॐ भूर्भुव॒: स्व॑:।
ॐ तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो᳚ दे॒वस्य॑ धीमहि।
धियो॒ यो न॑: प्रचो॒दया᳚त्।।
स॒त्यं त्व॒र्तेन॒ परि॑षिञ्चा॒मि (इति प्रातः)।
ऋ॒तं त्वा॑ स॒त्येन॒ परि॑षिञ्चा॒मि (इति सायम्)।
अ॒मृ॒तो॒प॒स्तर॑णमसि स्वा॒हा।
ॐ प्रा॒णाय॒ स्वाहा᳚।
ॐ अ॒पा॒नाय॒ स्वाहा᳚।
ॐ व्या॒नाय॒ स्वाहा᳚।
ॐ उ॒दा॒नाय॒ स्वाहा᳚।
ॐ स॒मा॒नाय॒ स्वाहा᳚।
ॐ ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑।।
श्रीमधुमती श्यामलाम्बायै नमः।
भक्ष्यभोज्यमहानैवेद्यं समर्पयामि।।
पानीय समर्पणम्
एलोशीरलवङ्गपुष्पनिचयैः संवासितं भासुरम्।
पानीयं पिब देवि देवविमलमाप्यायने कारणम्।
गङ्गादिप्रभवं विचित्रसुखदं सौवर्णकुम्भस्थितम्।
भुक्तानस्य विपाककानि सततं सञ्जीवनाजीवनम्।।
श्रीमधुमती श्यामलाम्बायै नमः।
पानीयं समर्पयामि।।
हस्तादिप्रक्षालनम्
उष्णोदकैः पाणियुगं मुखं च
प्रक्षाल्य मातः कलधौतपात्रे।
कर्पूरमिश्रेण सकुङ्कुमेन
हस्तौ समुद्वर्तय चन्दनेन।।
श्रीमधुमती श्यामलाम्बायै नमः।
हस्त प्रक्षालनं समर्पयामि।।
मुख प्रक्षालनं समर्पयामि।
करोद्वर्तनार्थे चन्दनं समर्पयामि।।
फलादि समर्पणम्
जम्ब्वाम्ररम्भाफलसंयुतानि
द्राक्षाफलाक्रोडसमन्वितानि।
सनारिकेलानि सदाडिमानि
फलानि ते देवि समर्पयामि।।
श्रीमधुमती श्यामलाम्बायै नमः।
फलानि समर्पयामि।।
ताम्बूल समर्पणम्
ॐ आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं सु॒वर्णां᳚ हेम॒मालि॑नीम्।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जा॒तवे᳚दो म॒ आव॑ह।।१४।।
कर्पूरेण युतैर्लवङ्गसहितैः कङ्कोलचूर्णान्वितैः।
सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः।
मातः केतकिपत्रपाण्डुरुचिरैस्ताम्बूलवल्लीदलैः।
सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु।।
श्रीमधुमती श्यामलाम्बायै नमः।
पूगीफलताम्बूलं समर्पयामि।।
दक्षिणार्पणम्
अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य।
त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्ताम्।
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि।।
श्रीमधुमती श्यामलाम्बायै नमः।
सुवर्णपुष्पदक्षिणां समर्पयामि।।
महानीराजन दीपार्पणम्
ॐ तां म॒ आव॑ह जातवेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म्।
यस्यां॒ हि॑रण्यं॒ प्रभू᳚तं॒ गावो᳚ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम्।।१५।।
रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषोद्दीपितैः।
दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः।
आताम्रज्वलदुज्वलज्ज्वलनवद्रत्नप्रदीपैः सदा।
मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः।।
श्रीमधुमती श्यामलाम्बायै नमः।
मङलमहानीराजन दीपं दर्शयामि।।
ॐ श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो᳚ जरि॒तृभ्यो᳚ दधाति।
श्रियं॒ वसा᳚ना अमृत॒त्वमा᳚य॒न्भव᳚न्ति स॒त्या स॑मि॒था मि॒तद्रौ᳚।।
श्रिय एवैनं तच्छ्रियामादधाति सन्ततमृचा वषट्कृत्यं
सन्तत्यै सन्धीयते प्रजया पशुभिर्य एवं वेद।
अस्तुश्रीर्मङ्गलानि भवन्तु।
भवन्तु मङ्गलानि।।
मन्त्रपुष्पाञ्जलिः
ॐ यः शुचि॒: प्रय॑तो भू॒त्वा जु॒हुया᳚दाज्य॒ मन्व॑हम्।
श्रिय॑: प॒ञ्चद॑शर्चं॒ च श्री॒काम॑: सत॒तं ज॑पेत्।।१६।।
चरणनलिनयुग्मं पङ्कजैः पूजयित्त्वा।
कनककमलमालां कण्ठदेशेऽर्पयित्वा।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते।
हृदयकमलमध्ये देवि हर्षं तनोतु।
श्रीमधुमती श्यामलाम्बायै नमः।
मन्त्रपुष्पाञ्जलिं समर्पयामि।।
प्रदक्षिणापूर्वक नमस्कार:
पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति।
तां सर्वपापक्षयहेतुभूतां प्रदक्षिणान्ते पतितः करोमि।।
श्रीमधुमती श्यामलाम्बायै नमः।
आत्मप्रदक्षिणनमस्कारान्समर्पयामि।।
उरसा शिरसा दृष्ट्या मनसा वचसा तथा।
पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग उच्यते।।
राजोपचार समर्पणम्
पुनः पूजां करिष्ये॥
मातः काञ्चनदण्डनिर्मितमिदं पूर्णेन्दुबिम्बप्रभम्।
नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम्।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतम्।
छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम्।।
श्रीमधुमती श्यामलाम्बायै नमः।
छत्रं धारयामि।।
त्वदमलवपुरुद्यत्कान्तिकल्लोलजालैः।
स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम्।
मुहुरपि च विधूते चामरग्राहिणीभिः।
सितकरकरशुभ्रे चामरे चालयामि।।
श्रीमधुमती श्यामलाम्बायै नमः।
चामराभ्यां वीजयामि।
विपञ्चीषु सप्तस्वरान्वादयन्त्यस्तव द्वारि गायन्ति गन्धर्वकन्याः।
क्षणं सावधानेन चित्तेन मातस्समाकर्णय त्वं मया प्रार्थितासि।।
श्रीमधुमती श्यामलाम्बायै नमः।
गीतं श्रावयिष्यामि।।
अतिशयकमनीयैर्नर्तनैर्नर्तकीनाम्।
झटिति च रमयित्वा चेत एवं त्वदीयम्।
स्वयमहमपि चित्रैर्नृत्यवादित्रगीतैः।
भगवति भवदीयं मानसं रञ्जयामि।।
श्रीमधुमती श्यामलाम्बायै नमः।
नृत्यं नर्तयिष्यामि।।
रुचिरकुचतटीनां नाट्यकाले नटीनाम्।
प्रतिगृहमथ तत्र प्रत्यहं प्रादुरासीत्।
धिमिक धिमिकि धिद्धी धिद्धि धिद्धेति धिद्धी।
धिकिति धिकिति तत्त्थै त्थै यथेथेति शब्दः।।
श्रीमधुमती श्यामलाम्बायै नमः।
वाद्यं वादयिष्यामि।।
मार्तण्डमण्डलनिभो जगदम्ब योऽयम्।
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते।
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीयम्।
अस्मिन्विलोकय विलोलविलोचने त्वम्।।
श्रीमधुमती श्यामलाम्बायै नमः।
आदर्शनं दर्शयामि।।
कर्पूरादिकवस्तुजातमखिलं सौवर्णभृङ्गारकम्।
ताम्बूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम्।
विस्फूर्णं मणिपादुके च दधती: सिंहासनस्याभितः।
तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि।।
श्रीमधुमती श्यामलाम्बायै नमः।
आन्दोलिकारोहणं परिकल्पयामि।।
प्रियगतिरतितुङ्गो रत्नपल्लाणयुक्तः।
कनकमयविभूषः स्निग्धगम्भीरघोषः।
भगवति कलितोऽयं वाहनार्थं मया ते।
तुरगशतसमेतो वायुवेगस्तुरङ्गः।।
श्रीमधुमती श्यामलाम्बायै नमः।
अश्वारोहणं परिकल्पयामि।।
मधुकरवृतकुम्भो न्यस्तसिन्दूररेणुः।
कनककलितघण्टः किङ्किणीशोभिकण्ठः।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो।
जननि तव मुदे स्यान्मत्तमातङ्ग एषः।।
श्रीमधुमती श्यामलाम्बायै नमः।
गजारोहणादि समस्त राजोपचारान् परिकल्पयामि।
पूजानिवेदनम्
यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम्।।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे।।
अनेन पञ्चदशावर्तनश्रीसूक्ताभिषेकेण सह देव्यथर्वशीर्षाभिषेकेण सह सहस्रकुंकुमार्चनेन सह लक्ष्मीसूक्तविधानपूर्वक ध्यानावाहनादि शोडषोपचारमहापूजनेन श्रीमहाकाली महालक्ष्मी महासरस्वतीस्वरूपिणी मधुमतीश्यामलाम्बा प्रीयताम्।।
प्रीता भवतु।।
महामंत्र
श्री भक्तकार्यकल्पद्रुम गुरुसार्वभौम श्रीमद्राजाधिराज योगिमहाराज त्रिभुवनानंद अद्वैत अभेद निरंजन निर्गुण निरालंब परिपूर्ण सदोदित सकलमतसस्थापित श्री सद्गुरु माणिकप्रभु महाराज की जय!
CONTACT US
Shri Manik Prabhu Samsthan,
Maniknagar,
Dist. Bidar,
Karnataka - 585353 (India)
E-mail: maniknagar@gmail.com
Admin: 9448469913, 9448128389
Office: 9535119497, 9036656829
Seva Booking: 9008894889
Accommodation: 9902453075, 9731089499