Select Page

वैश्वदेवप्रयोगः

सङ्कल्पः

आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं अन्नसंस्कारात्मसंस्कारद्वारा पञ्चसूनाजनितदोषपरिहारार्थं प्रात: सायं वैश्वदेवौ समानतन्त्रेण करिष्ये ।।

अग्न्यावाहनम्

कुण्डे स्थण्डिलादौ वा पचनाग्निं जुष्टोदमूना आत्रेयोवसुश्रुतोऽग्निस्त्रिष्टुप् ।
एह्यग्ने राहूगणो गोतमोऽग्निस्त्रिष्टुप
अग्न्यावाहने विनियोगः ।।

ॐ जुष्टो॒ दमू᳚ना॒ अति॑थिर्दुरो॒ण इ॒मं नो᳚ य॒ज्ञमुप॑ याहि वि॒द्वान् ।
विश्वा᳚ अग्ने अभि॒युजो᳚ वि॒हत्या᳚ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ।।
एह्य॑ग्न इ॒ह होता॒ नि षी॒दाद॑ब्ध॒: सु पु॑रए॒ता भ॑वा नः ।
अव॑तां त्वा॒ रोद॑सी विश्वमि॒न्वे यजा᳚म॒हे सौ᳚मन॒साय॑ दे॒वान् ।।
इत्यक्षतैरावाह्य आच्छादनं दूरीकृत्य ।।

अग्निप्रतिष्ठापनम् ।

समस्त व्याहृतीनां परमेष्ठी प्रजापतिः
प्रजापतिर्बहती अग्निप्रतिष्ठापने विनियोगः ।
ॐ भूर्भुव॒: स्व॑: रुक्मकनामानमग्निं प्रतिष्ठापयामि ।।
प्रोक्षितेन्धनानि निक्षिप्य वेणुधमन्या प्रबोध्य ध्यायेत् ।।

ध्यानम्

चत्वारिशृङ्गा गौतमो वामदेवो अग्निस्त्रिष्टुप्
अग्निमूर्तिध्याने विनियागः ।।

च॒त्वारि॒ श‍ृङ्गा॒ त्रयो᳚ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता᳚सो अस्य ।
त्रिधा᳚ ब॒द्धो वृ॑ष॒भो रो᳚रवीति म॒हो दे॒वो मर्त्यां॒ आ वि॑वेश ।।

सप्तहस्तश्चतुःशृङ्गः सप्तजिह्वो द्विशीर्षक: ।
त्रिपात्प्रसन्नवदनः सुखासीनः शुचिस्मितः ।।
स्वाहान्तु दक्षिणेपार्श्वे देवीं वामे स्वधां तथा ।
बिभ्रद्दक्षिणहस्तैस्तु शक्तिमन्नं स्रुचंस्रुवम् ।।
तोमरं व्यजनं वामैघृतपात्रं च धारयन् ।
मेषारूढो जटाबद्धो गौरवर्णो महौजसः ।।
धूम्रध्वजो लोहिताक्ष: सप्तार्चि: सर्वकामदः ।
आत्माभिमुखमासीन एवं रूपो हताशनः ।।

अग्ने वैश्वानर शाण्डिल्यगोत्र मेषध्वज प्राङ्मुखोदेव
मम सम्मुखो वरदो भव ।
इति ध्यात्वा परिसमूहनपर्युक्षणे कृत्वा ।।

अग्निअलङ्करणम्

विश्वानिन इति तिसृणामात्रेयोवसुश्रुतोऽग्निस्त्रिष्टुप्
द्वयोरर्चनेऽन्त्याया उपस्थाने विनियोगः ।।

ॐ विश्वा᳚नि नो दु॒र्गहा᳚ जातवेदः॒ ।
ॐ सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि ।
ॐ अग्ने᳚ अत्रि॒वन्नम॑सा गृणा॒न: ।
ॐ अस्माकं᳚ बोध्यवि॒ता त॒नूना᳚म् ।
ॐ यस्त्वा᳚ हृ॒दा की॒रिणा॒ मन्य॑मा॒न: ।
अम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि ।
ॐ जात॑वेदो॒ यशो᳚ अ॒स्मासु॑ धेहि
ॐ प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ।

यस्मै॒ त्वं सु॒कृते᳚ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् ।
अ॒श्विनं॒ स पु॒त्रिणं᳚ वी॒रव᳚न्तं॒ गोम᳚न्तं र॒यिं न॑शते स्व॒स्ति ।।

आत्मानं चालंकृत्य हस्तं प्रक्षाल्य
सिद्धमन्नमग्नावधिश्रित्य उदगुद्वास्य प्रोक्ष्य ।।
अग्नेः पश्चिमतो निधाय त्रिधा विभज्य ।
सव्यं पाणितलं हृदिन्यस्य दक्षिणहस्तेन
दक्षिणभागादामलकमितमन्नमादायांङ्गष्ठाग्रेण
पीडितं संहताङ्गुल्युत्तानपाणिना प्रणवादिरहितैः
स्वाहान्तै सूर्यादिमन्त्रैर्जुहुयात् ।।

देवयज्ञः

सूर्याय स्वाहा ।। सूर्यायेदं न मम ।।
(अग्नये स्वाहा ।। अग्नय इदं न मम ।।)
प्रजापतये स्वाहा ।। प्रजापतय इदं न मम ।।
सोमायवनस्पतये स्वाहा ।। सोमायवनस्पतय इदं न मम ।।
अग्नीषोमाभ्यां स्वाहा ।। अग्नीषोमाभ्यां इदं न मम ।।
इन्द्राग्निभ्यां स्वाहा ।। इन्द्राग्निभ्यां इदं नम ।।
द्यावापृथिवीभ्यां स्वाहा ।। द्यावापृथिवीभ्यां इदं नम ।।
धन्वन्तरये स्वाहा ।। धन्वन्तरय इदं नम ।।
इन्द्राय स्वाहा । इन्द्राय इदं न मम ।।
विश्वेभ्योदेवेभ्य: स्वाहा ।। विश्वेभ्योदेवेभ्य इदं न मम ।।
ब्रह्मणे स्वाहा । ब्रह्मण इदं नमम ।।

भूतयज्ञः

सूर्याय स्वाहा ।। सूर्यायेदं न मम ।।
(अग्नये स्वाहा ।। अग्नय इदं न मम ।।)
प्रजापतये स्वाहा ।। प्रजापतय इदं न मम ।।
सोमायवनस्पतये स्वाहा ।। सोमायवनस्पतय इदं न मम ।।
अग्नीषोमाभ्यां स्वाहा ।। अग्नीषोमाभ्यां इदं न मम ।।
इन्द्राग्निभ्यां स्वाहा ।। इन्द्राग्निभ्यां इदं नम ।।
द्यावापृथिवीभ्यां स्वाहा ।। द्यावापृथिवीभ्यां इदं नम ।।
धन्वन्तरये स्वाहा ।। धन्वन्तरय इदं नम ।।
इन्द्राय स्वाहा । इन्द्राय इदं न मम ।।
विश्वेभ्योदेवेभ्य: स्वाहा ।। विश्वेभ्योदेवेभ्य इदं न मम ।।
ब्रह्मणे स्वाहा । ब्रह्मण इदं नमम ।।
अद्भ्य: स्वाहा ।। अद्भ्य इदं न मम ।।
ओषधिवनस्पतिभ्यः स्वाहा ।। ओषधिवनस्पतिभ्य इदं न मम ।।
गृहाय स्वाहा ।। गृहाय इदं न मम ।।
गृहदेवताभ्यः स्वाहा ।। गृहदेवताभ्य इदं न मम ।।
वास्तुदेवताभ्य: स्वाहा ।। वास्तुदेवताभ्य इदं न मम ।।
(पूर्वे) इन्द्राय स्वाहा ।। इन्द्राय इदं न मम ।।
इन्द्रपुरुषेभ्यः स्वाहा ।। इन्द्रपुरुषेभ्य इदं न मम ।।
(दक्षिणे) यमाय स्वाहा ।। यमाय इदं न मम ।।
यमपुरुषेभ्यः स्वाहा ।। यमपुरुषेभ्य इदं न मम ।।
(अप उपस्पृश्य)
(पश्चिमे) वरुणाय स्वाहा ।। वरुणाय इदं न मम ।।
वरुणपुरुषेभ्यः स्वाहा ।। वरुणपुरुषेभ्य इदं न मम ।।
(उत्तरे) सोमाय स्वाहा ।। सोमाय इदं न मम ।।
सोमपुरुषेभ्य: स्वाहा ।। सोमपुरुषेभ्य इदं न मम ।।
(मध्ये) ब्रह्मणे स्वाहा ।। ब्रह्मण इदं न मम ।।
ब्रह्मपुरुषेभ्य: स्वाहा ।। ब्रह्मपुरुषेभ्य इदं न मम ।।
विश्वेभ्योदेवेभ्य: स्वाहा ।। विश्वेभ्योदेवेभ्य इदं न मम ।।
सर्वेभ्योभूतेभ्यः स्वाहा ।। सर्वेभ्योभूतेभ्य इदं न मम ।।
दिवाचारिभ्य: स्वाहा ।। दिवाचारिभ्य इदं न मम ।।
(नक्तंचारिभ्यः स्वाहा ।। नक्तंचारिभ्य इदं न मम ।।)
(ईशान्यां) रक्षोभ्यः स्वाहा ।। रक्षोभ्य इदं न मम ।।
(अप उपस्पृश्य)

पितृयज्ञः

प्राचीनावीती ।। (आग्नेय्याम्) स्वधा पितृभ्यः ।।

उत्तराङ्गम्

वैश्वदेवसागुण्यार्थं व्याहृतिहोमं होष्ये ।।

भूः स्वाहा ।। अग्नय इदं न मम ।।
भुवः स्वाहा ।। वायव इदं न मम ।।
स्वः स्वाहा ।। सूर्याय इदं न मम ।।
भूर्भुवःस्व: स्वाहा ।। प्रजापतय इदं न मम ।।

त्रिस्त्रिः परिसमूहनपर्युक्षणेकृत्वा अग्न्यलङ्करणम् ।
विश्वानिन इति तिसृणामात्रेयोवसुश्रुतोऽग्निस्त्रिष्टुप् द्वयोरर्चनेऽन्त्याया उपस्थाने विनियोगः ।।

ॐ विश्वा᳚नि नो दु॒र्गहा᳚ जातवेदः॒ ।
ॐ सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि ।
ॐ अग्ने᳚ अत्रि॒वन्नम॑सा गृणा॒न: ।
ॐ अस्माकं᳚ बोध्यवि॒ता त॒नूना᳚म् ।
ॐ यस्त्वा᳚ हृ॒दा की॒रिणा॒ मन्य॑मा॒न: ।
अम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि ।
ॐ जात॑वेदो॒ यशो᳚ अ॒स्मासु॑ धेहि
ॐ प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ।

यस्मै॒ त्वं सु॒कृते᳚ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् ।
अ॒श्विनं॒ स पु॒त्रिणं᳚ वी॒रव᳚न्तं॒ गोम᳚न्तं र॒यिं न॑शते स्व॒स्ति ।।

अग्निस्तुविश्रवइत्यात्रेयोवसूयवोग्निस्त्रिष्टुप् पुष्पाञ्जलौ विनियोगः ।।

ॐ अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र᳚ह्माणमुत्त॒मम् ।
अ॒तूर्तं᳚ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे᳚ ।।

विभूतिधारणम्

मानस्तोकइत्यस्य कुत्सो रुद्रो जगती
विभूतिग्रहणे विनियोगः ।।

ॐ मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒
गोषु॒ मा नो॒ अष्वे᳚षु रीरिषः ।
वी॒रान्मा नो᳚ रुद्र भामि॒तो व॑धीर्ह॒विष्म᳚न्त॒:
सद॒मित्त्वा᳚ हवामहे ।।
त्र्यायुष जमदग्नेरिति ललाटे ।
कश्यपस्य त्र्यायुषं कण्ठे ।
अगस्त्यस्य त्र्यायुषं नाभौ ।
यद्देवानां त्र्यायुषं दक्षिणस्कन्धे ।
तन्मेअस्तु त्र्यायुषं वामस्कन्धे ।।
सर्वमस्तु शतायुषं शिरसि ।
ॐ च॑ मे॒ स्वर॑श्च मे य॒ज्ञोप॑चते॒ नम॑श्च ।
यत्ते न्यूनं तस्मै त उपयत्ते॑तिरि॒क्तं तस्मै॑ ते नमः ।।
अग्नये नमः ।।
स्वस्ति ।।
श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् ।
आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ।।
नमो नमः ।।

कर्मनिवेदनम्

अनेन प्रात:सायं वैश्वदेवाख्येन कर्मणा श्रीमान् यज्ञरूपी परमेश्वरः प्रीयतां न मम ।।

बलिहरणम्

श्यामाय स्वाहा ।। श्यामाय इदं न मम ।।
शबलाय स्वाहा ।। शबलाय इदं न मम ।।
वैवस्वतकुले जातौ द्वौ श्यामशबलौ शुनौ ।
ताभ्यां पिण्डो मया दत्तो रक्षेतां पथि मां सदा ।।
श्वचाण्डालपतितभूतवायसेभ्योऽन्नं भूमौ विकिरेत् ।।

ये भूताः प्रचरन्ति दिवानक्तं बलिमिच्छन्तो वितुदस्य प्रेष्ठाः ।
तेभ्यो बलिं पुष्टिकामो ददामि मयि पुष्टिं पुष्टिपतिर्ददातु ।।

ऐन्द्रवारुणवायव्या याम्या नैर्ऋतिकाश्च ये ।
ते काकाः प्रतिगृह्णन्तु भूम्यां पिण्डं मयोज्झितम् ।।

यमोऽसि यमदतोऽसि वायसोऽसि नमोऽस्तुते ।
सप्तजन्मकृतं पापं बलिं भक्षन्ति वायसाः ।।
कृमिकीटपतङ्गानां जन्तूनां पापचारिणाम् ।
ते सर्वे तृप्तिमायान्तु मया दत्तेन भूतले ।।

हस्तौ पादौ प्रक्षाल्य ।।

शा॒न्ता पृ॑थि॒वी शि॒वम॒न्तरि॑क्षं॒ द्यौर्नो᳚ दे॒व्यभ॑यं नो अस्तु ।
शिवा॒दिश॑: प्र॒दिश॑ उ॒द्दिशो᳚ न॒ आपो᳚ वि॒द्युत॒: परि पान्तु स॒र्वत॒: ।।
शान्तिः शान्तिः शान्तिः ।।
सर्वारिष्टः शान्तिरस्तु ।।
आचम्य ।
विष्णवे नमो विष्णवे नमो विष्णवे नमः ।।